________________
(१०:)
एव च ' से किं तं महन्वयउच्चारणे 'त्यादि ' पढमे भंते महत्वए ' इत्यादि च प्रसिद्धतमं प्रश्नोत्थानं भवतीत्यलं प्रसङ्गेन ।
अथ प्रकृते भवितुकामेनं यदात्मनः प्रकृतोपयोगि ज्ञातं तदांविष्कुर्वन्नाह - ' मूढेऽम्हि पावे fort मोरु वासिए ' ।
मुग्घत्वं चाऽत्र यथावत्तत्वाऽज्ञानरूपं, न 'रत्तो दुट्ठो मूंढो ' इत्यादिना बोधस्याऽभाव एवेति प्रतिपादितरूपं श्रोत्रपसदलक्षणरूपम् । यद्यपि जीवोऽयमनादिस्तथापि यथावत्तत्त्वज्ञानशून्यत्वाऽऽदियन्तमनेहसं संसारमटित इति ज्ञात्वोक्तं मूढोऽस्मीति ।
'अज्ञानं खलु कष्ट 'मित्यादिवचनादज्ञानमात्रेणं मूढत्वं स्यात्कदाचिद । अथवा 'शुभोदकीय वैकल्य '–मित्यादिवचनात् अशुभप्रतिषेधकारणीभूतमपि स्यान्मूढत्वमिति, तन्निषेधायाह - 'पावे 'ति ।
यद्यपि सूत्रकृताङ्गीयाऽऽचाराध्ययने 'अस्थि पुण्णं च पावं चे 'त्यादिनैकान्तिको पापवत्ता निषिध्यतेऽसुमतां, परं सा साधूनां देश्य पुरुषाऽपेक्षिका, अत्र तु भवितुकाम आत्मा स्वयमाह - ' पापः ' 'अहमस्मी 'ति शेषोऽत्र । अनादिकालात् मिथ्यात्वाऽऽदिना निविडकर्मबन्धोदय कारणेन युक्तत्वाद्युक्तमेव पापरूपत्वमात्मनः ।
4
यद्यपि लब्ध्यपर्याप्तकनिगोदान् विहाय न कोऽप्येकान्तपापभाग् जीवः, न च लब्ध्यपर्याप्त निगोदत्वं नित्यमिति न स्यात् अशुभकर्मपुद्गलरूपपापेन सर्वदा पापमयत्वमित्याह - 'अणाइमोहवासिए 'त्ति । यद्यपि सर्वेषां कर्मणां ज्ञानावरणीयादीनामबाधिताऽवस्थोदयादिगता; न च ज्ञानावरणीयादिषु किञ्चिदपि कर्म सादि, सादि - सान्तं वा, तेषां विकल्पद्वयस्यैवाऽनाद्यनन्तं - सान्तरूपस्यैव भावात्, परमष्टस्वपि तदेवैकं मोहकर्म, यस्योदयः सादिसान्तोऽपि भवेत्, अन्यथोपशमश्रेण्यादेरयोगात्, परमत्र वासितशब्देन सत्तागतत्वं सूच्यते । सत्तापेक्षया तु मोहोऽपि विकल्पद्वयमेवानाद्यनन्त सान्तरूपमेवोपयाति । अक्षीणमोहाः सर्वेऽप्यसुमन्तोऽनादिमोहसत्ताका एव भवन्तीति योग्यमुक्तम्'अनादिमोहवासित' इति ।
अत्र च पूर्वपूर्वहेतुता यतो मूढस्ततः पापः यतश्च पापः अत एवाऽनादिमोहवासितः । अथाऽनादिमोहवासनातः किं जातमित्याह - 'अणभिण्णे भावओ हियाऽहियाणं 'ति । 1. एकेन्द्रिया अपि जीवस्वभावतया विदन्त्येव सर्वे सुखं हितत्वेन दुःखं चाऽहितत्वेन; विकले - न्द्रियाश्च न सुख-दुःखे हिताऽहिततयां विदन्ति, किन्तु हितानां प्राप्यै, परिहाराय चाहितार्ना स्वेषां शरीराऽऽश्रयसाधनानां यथातथं पालनादि कुर्वन्ति, पञ्चेन्द्रियतिर्यञ्चोऽपि तथैव शरीराद्यर्थ विशेषेण सन्तान-स्वामि-कुटुम्बाऽर्थंमपि यतन्त एवं देवा अपि सहैव नरैः शरीराद्यर्थं यावद् घेन-कीर्ति द्रव्य सुकृताद्यर्थं च यतमानाः सन्त्येव । नरकास्तु 'अव्यवहारा णेरइये 'तिवचनाद् विचार्यन्ते एवं ने, परं सुखदुःख-हिताऽहितप्राप्तिपरिहारार्थितया हिताहितयोरभिज्ञास्तेऽपि सन्त्येव; परं संसारस्य मार्गोऽ