________________
(8)
. हितो हितस्तु मोक्षमार्ग एवेति तांखिके हिताऽहिते, ते न विदन्येवं संसारशूकरा जीवाः, तयोस्तथाविषयोर्हिताऽहितयोर्यज्ज्ञानं तदेव भावतो हिताहितज्ञानं तच जघन्यतोऽपि भवितुकामानां कल्याणाशयानां मार्गसाधनयोगवतांमेव स्यादिति स्वस्य प्राक् भावतों हिताऽहितयोरनभिज्ञत्वं दर्शितम् ।
एवं भूतकालीनं स्वस्वरूपं निन्दनाऽमुक्त्वाऽथ प्रार्थनीयं प्रार्थयमानं आह'अभिण्णे सिमा अहिअणिवित्ते सिभा, हिअपवित्ते, सिअ 'त्तिं ।
एतेन भावतो हिताहितत्वं प्रार्थना ।
न च जैनं शासनं प्रार्थनामात्रपरायणमिति कृत्वा स्वस्याऽहितेम्यो निर्वृत्तिं प्रवृत्ति च हितेषु प्रार्थयति, अन्स्याssवर्त्तवर्तिनां यथाभद्रक मिथ्यादृशामपि अहित हितयोः निवृत्तिप्रवृत्तिभावादाह'आराहंगे सिअ 'ति ।
आजन्माऽखण्डतया प्रतिपालनं ह्याराधनेति कृत्वा आह - आराहगे सिया ।
भवषायें चात्र धीधनैः यदुत - ' आराधको जीवो जघन्यानां ज्ञान-दर्शन- चारित्राऽऽराधनार्ना फलं 'जन्मभिरष्टृत्र्येकै 'रिति वचनाद् भवाष्टकाभ्यन्तरमेव दृणुते सिद्धिवधूमिति योग्यमेवोक्तं-यदाराधकः स्यामिति ।
ज्ञानादीनां त्रयाणां जघन्य मध्यमोत्कृष्टानामारांघनानां भावादात्मनश्वाधुना पापप्रतिघात - गुणबीजाऽऽघानाभ्यामेव चतुःशरणगमनं कृत्वा, पूर्वकालीनानां पापानां गया विधानात्, अर्हदादीनां भगवतामनुष्ठानानुमोदनेन गुणबहुमानकरणरूपस्य गुणबीजाधानस्य च करणात्, भावतो देशविरत्यादेरंप्रतिपत्तेश्चात्मनो न्यूनतरावस्थां विदन्नपि स्वभूमिकाया औचित्येनं प्रवृत्तः, सर्वेषां च अपुर्नबन्धकादीनां सच्चानां स्त्रभूमिकाया औचित्येन प्रवर्त्तनमेव न्याय्यं, अयथाशक्त्यनुष्ठानस्याऽऽत्मघातित्वेनाऽनुचितखात् इतिकृत्वा चाह-'उचिअपडिवत्तीए सम्बसत्ताणं सहि 'ति ।
यद्वा-'मिर्त्ति भूएसु कंप्पए 'त्ति वचनात् "मैत्रीमूलो हि धर्मों जैनानाम् ” ।
अस्मिन् धर्मे 'दुष्टानां शिक्षणं चैवेत्युपदिश्य मंचारोऽपचारस्य क्रियते, पूर्वकृतं - धनपापानामेवासुमतामिहभवे दुष्टत्वाद् दुःखितत्वाच्च यदीदृशः स्यादाऽऽचारो नोडस्थानं त् क्वापि कृपासुन्दरीति ।
जैने तु शासने' मा कार्षीत् कोऽपि पापानी 'व्यादिरूपाश्वतस्रो भावना एव सम्यक्त्वमूल, भवितुकामय स्वभूमिकौचित्येन परैः कृतानां सुकृतानामनुमोदनेनैव तन्मूलमानीतीति त्रिराह-' इच्छामि सुकर्ड ? इति ।
1.