________________
( १२ )
तथा च परकृतानां सुकृतानामनुमोदनं समापयन् त्रिःप्रणिधानमिदं करोति 'इच्छामि सुकृत'
मिति ।
1. एवं च ' जावज्जीवं मे भगवन्तो' इत्यादितः 'इच्छामि सुकडे ' इत्यंतं प्रणिधानं भवितुकामेन पठितमनूदितं च सूत्रकारैः परं प्रागेवाऽस्मात् प्रणिधानसूत्रादुपदिष्टं सूत्रकारैर्यदुत " प्रणिधानमिदं सङ्केशे भूयोभूयः पठितव्यमसङ्केशेऽपि त्रिकालमिति । "
तत्र भूयोभूयः पठनस्य त्रिकालं पठनस्य वा किं फलमिति तत्र न दर्शितमेतत्, अधुनैतत्प्रणिधानसूत्रस्य पाठाssदौ किं फलमिति पापप्रतिघात - गुण बीजाऽऽघानाऽऽख्यप्रथमसूत्रस्योपसंहाराऽवसरे दर्शयति - एवमेअं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स ।
तत्राऽऽधीतेतरसूत्रेण पठिनण्यमसङ्केशे त्रिकालं सङ्क्लेशकाले च भूयोभूयः परं यो न तथाविधः क्षयोपशमवान् न चाघीतै तत्सूत्रस्तेन श्रोतव्यमितिकृत्योभयमाह - एवमेतत् सम्यक् पठतोऽन्यस्य. शृण्वत इति ।
अनन्योपयोगस्यैव पठनं श्रवणं च श्रेयस्करमित्यनन्योपयोगार्थं 'णिदाविगहापरिवज्जिएहिं 'इत्यादिवचनाच्च निद्रादित्र्याघातपरिवर्जनपूर्वकमेव पठनं श्रवणं च विधेयमितिविधिदर्शनार्थं च सम्यगित्याह ।
,
इदं च पठनं श्रवणं च ' जस्स णं आवस्सए त्ति पदं सिक्खितं ' ' यावत्" " धम्मकहागो अणुप्पेहाए 'त्यनुयोगद्वारवचनादनुप्रेक्षारहितस्य क्रयावश्यकचद् द्रव्यरूपं स्यादिति तस्य पठनस्य श्रवणस्य च भावत्वाऽऽपादनार्थमाह-' अणुप्पेहमाणस्स 'ति ।
ग्रन्थस्य सह तदर्थेनाऽनुचिन्तनमनुप्रेक्षा । तथा चैतस्य प्रणिधानसूत्रस्यार्थमपि सदैव चिन्तयतोऽनुप्रेक्षायुक्तस्य भवितुकामस्य किं स्यात् फलमित्याह - 'सिढिलीभवंती 'त्यादि ।
अत्र तावत् सम्यक्त्वपराक्रमाख्ये श्रीमदुत्तराध्ययन सके एकोनत्रिंशत्तमेऽध्ययने 'सज्झाए णं भंते ' इत्यत आरभ्यांष्टादशमाद् द्वाराद् यावद् द्वाविंशतितमे 'अणुप्पेहाए णं भंते ! जीवे किं जणेई 'त्युपक्रम्य यावत् 'संसारकंतारं खिप्पामेव वीइवयई 'तिपर्यन्तं यदुक्तं तत् सर्वमवतारणीयं, स्वाध्यायाssधनुप्रेक्षाऽन्तस्य श्रुतधर्मस्य फलोन्नयनाद्
प्रस्तुतमथ प्रस्तूयते । किं प्रस्तुतं ? पठनादेः फलमतस्तदेवाह
'सिढिलीभवन्ति परिहायन्ति विज्जति असुहकम्माणुवंधा' इति ।
अत्रेदमवधेयं यद्भुत कर्माऽनुबन्धा द्विविधाः शुभा अशुभाश्व, तत्राऽशुभा एव साम्परायिकास्ते चावश्यं क्षेया इति 'सव्वपापणासणी' इत्याद्युव्यते । शुभास्तु न साम्परायिकाः अधिका अपि : चरमभवाऽऽयुष्कादष्टसामयिकसमुद्घातेन क्षप्यन्ते । यद्यपि 'बद्धानां कर्मणां शाटो निर्जरे -