________________
(९३)
त्यभिधीयते तथापि तद्भेदा येऽनशनादयस्ते साम्परायिकस्य पापस्यैव क्षपकाः । संवरोऽपि पापानामेव प्राणवधादीनामवरोधेन मन्यते इति प्रस्तुते अशुभकर्माऽनुबन्धानां शिथिलीभवनाद्याम्नातं । तत्र प्रदेश-स्थिति-रसादिभिरल्पीभवनं श्लथीभवनं । . . , . जैनप्रवचने कर्म द्वेधा-प्रदेशरूपं रसरुपं च, तत्र प्रदेशकर्म त्ववश्यमेव भोक्तव्यं, तदपेक्षयैवोच्यते'कडाण कम्माण ण मोक्खो अत्थि' इत्यादि, रसकर्म तु तपःस्वाध्यायादिभिः क्षयमप्युपयाति, यदपेक्षयोच्यते 'तवसा झोसइत्ते 'त्यादि । तदत्र रसकर्मणां यः क्षयः स परिहाणिरिति । यदा च प्रदेशै रसैश्चोभयथाप्यशुभकर्माऽनुबन्धा अपयान्ति तदा क्षीयन्ते इत्युच्यन्ते ।
एवं च प्रस्तुतस्य प्रणिधानसूत्रस्य पाठादेः पाक्षिकं फलमुपपादितं, ये कर्माऽनुबन्धा अनिकाचिता भवन्ति, तद्विषये अपवर्तनाऽऽदीनां करणानां प्रवृत्तेः स्यादुक्तं फलम् , परं ये निकाचिता अशुभकर्माsनुन्धास्तद्विषये अपूर्वकरणाऽतिरिक्तं न किञ्चित् प्रवर्तते, न चाऽपूर्वकरण-द्वयादेकतरमपि पठनाऽऽदिकाले नियतं भवतीति तादृशे निकाचिते अशुभकर्माऽनुबन्धमधिकृत्य प्रस्तुतप्रणिधानसूत्रस्य पठनादीनां फलमाह-'निरनुबन्धे. वे 'त्यादि ।
.: अनुवन्धशब्दोऽत्र न पूर्ववत् सामान्यबन्धवाचकः किन्तु पारम्पर्यवाचकः तत्राऽनुरर्यहीनः, अत्र तु सातत्याऽर्थत्वेन पारम्पर्यायः । कर्मणां च विशेषेण स्वभावोऽयं यत् पारम्पयमनुबध्नन्ति, तत एव चाऽनाभोगेनापि प्रतिसमयं जीवानां योगेन गृहीतानां कर्मणां सप्तधा बन्धः, तत्रापि अशुभानां विशेषेण निकाचितानामशुभकर्मणां विशेषेण पारम्पर्य भवति । श्रूयते च मरुभूति-कमठाऽऽदीनां वैरानुबन्धपारम्पर्यम् , अत आह प्रणिधानसूत्रस्यैतस्य पठनादेरशुभानि निकाचितानि कर्माणि पारम्पर्येण हीनानीति निरनुबन्धानि स्युरिति ।। .. वर्तमानान्यपि निकाचितान्यशुभकर्माण्याश्रित्याह-'भग्गसामत्थे 'त्ति । ज्ञाननादोनां कर्मण यद्यत् ज्ञानावरोधादिसामर्थ्य तत् सर्वं सामर्थ्य पठनाद्येतस्य भनक्ति ।
कुतः पुनरेव मित्याह- सुहपरिणामेणं 'ति । : प्राक् तावत् प्रणिधानसूत्रस्यैतस्य पठनादेरशुभकर्मणां शिथिलीभवनायुक्तं, तत्राप्येतदेवैतजन्यः शुभः परिणामः कारणं, तत्राऽर्थगम्य एषः। अत्र तु निकाचितानां सामर्थ्यभनाय विशेषतस्तस्य कारणत्वात् साक्षादुक्तिः । .
. सत्सु कर्मसु विबाधनस्वभावेषु कथं स्याद् भग्नसामर्थ्यमिति दृष्टान्तेन तद् दृढयति 'कडगवद्ध विव विसे 'ति । .. यद्यपि विषस्य लेशोऽपि प्राणवियोजनस्वभावः, सहस्रवेधिनस्तु तस्य किं हि वाच्यं, परं तादृशमपि विषं प्रतियोगेन. मन्त्रेण वा तथा प्रतिहतसामयं भवति, यथा यत्र तत्र सङ्क्रान्तपूर्व तत्रैव