Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 135
________________ (९७) इति तत्त्वार्थ भाष्यकारोक्तोत्तमोत्तमकोटी पुरुषत्वादप्यर्हन्तो भगवन्तो नतनता इति तेभ्यो नम इति । यद्यपि वीतरागशब्देन बन्धो-दय- सत्तागतस्याऽभावः ख्याप्यते, तथापि भगवतामर्हतामेव तथाभूतानां ग्रहणमिति परमवीतरागेभ्य इत्याहुः । एवं चाऽर्हतो नमस्कृत्य शेषनमस्कार्यनमस्कारार्थमाहुः णमो सेसणमुकारारिहाणं' ति । अनेन च पदेन सर्वेऽपि सिद्धाचार्योपाध्याय - मुनिरूपा नमस्कार्या अखिलशासनस्य, ते व्याक्षिप्ताः । नहि जैने शासने कश्चिदपि परमेष्ठी नमस्कारानर्ह इति योग्यमुक्तं - ' नमः शेषनमस्काराभ्य' इति । एवं पूज्याऽऽराध्यानशेषान्नमस्कारेणाराध्याऽऽशंस्यमाहुः - 'जयउ सव्वण्णु सासणं 'ति । मत्रावधेयमिदं यदुत-नवपयां सिद्धचक्रयन्त्रे च यानि नव पदानि ख्यातानि, आद्यानि तेषु पञ्चाऽऽराध्य-पूज्यतोभयपदोपेतानि, परं सम्यग्दर्शनादीनि तु चत्वारि गुणरूपत्वादाराध्यान्येव । अत एव पूज्याऽऽराध्योभयधर्मोपेतत्वात् पञ्चपरमेष्टि- नमस्काराssदि (१) परं यानि सम्यग्दर्शनादीनि चत्वार्याराध्यानि पदानि, तान्येव जैनशासनं । उभयाऽवधारणं चात्रापि - " यद् नाऽन्यत् सम्यग्दर्शनादिभ्यो जैनं सर्वज्ञोद्भावितं शासनं न च तादृशं शासनं व्यतिरिच्य सम्यग्दर्शनादीनि " । ततः सुष्ठुक्तं “जयतु सर्वज्ञशासन 'मिति 'धम्मो वड्ढउ सासओ विजयओ' इत्यादिवत् जयाssशीर्वादस्य प्रशस्यताssवश्यकता चेति । असम्भव्यपि यथा जिनेश्वरैर्वरबोधित आरभ्य परार्थोद्यतत्वादशेषजगदुद्धारकरणमभिधार्यते । अभावेऽपि तस्याऽभिप्रेतस्य जगदुद्धारफलस्य तदभिधारणे तेन तु तीर्थंकरत्वं समर्ज्यते निकाच्यते चेति, प्रस्तुतसूत्रकारा अपि प्रस्तुतोपयोग्येवाऽभिप्रेतमाहुः - ' परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा' इति । . परमसम्बोधिश्व प्रागुक्तवरबोधिलाभरूपोऽन्यो वा ज्ञेयः, सुखभावस्योभयत्राप्यव्याहतत्वात् । भवन्त्विति आशंसाप्रयोगश्च स्वेषां तथाविधवरलाभशून्यत्वाद् अन्यतो वाऽऽगमबोधबोध्या कारणादिति । एवमुक्त्वा निगमयन्ति प्रस्तुतं -' इति पावपडिधायगुणबीजाहाणसुत्तं समत्तं ' इति ।

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193