________________
(९७)
इति तत्त्वार्थ भाष्यकारोक्तोत्तमोत्तमकोटी पुरुषत्वादप्यर्हन्तो भगवन्तो नतनता इति तेभ्यो
नम इति ।
यद्यपि वीतरागशब्देन बन्धो-दय- सत्तागतस्याऽभावः ख्याप्यते, तथापि भगवतामर्हतामेव तथाभूतानां ग्रहणमिति परमवीतरागेभ्य इत्याहुः ।
एवं चाऽर्हतो नमस्कृत्य शेषनमस्कार्यनमस्कारार्थमाहुः
णमो सेसणमुकारारिहाणं' ति ।
अनेन च पदेन सर्वेऽपि सिद्धाचार्योपाध्याय - मुनिरूपा नमस्कार्या अखिलशासनस्य, ते व्याक्षिप्ताः ।
नहि जैने शासने कश्चिदपि परमेष्ठी नमस्कारानर्ह इति योग्यमुक्तं - ' नमः शेषनमस्काराभ्य' इति ।
एवं पूज्याऽऽराध्यानशेषान्नमस्कारेणाराध्याऽऽशंस्यमाहुः -
'जयउ सव्वण्णु सासणं 'ति ।
मत्रावधेयमिदं यदुत-नवपयां सिद्धचक्रयन्त्रे च यानि नव पदानि ख्यातानि, आद्यानि तेषु पञ्चाऽऽराध्य-पूज्यतोभयपदोपेतानि, परं सम्यग्दर्शनादीनि तु चत्वारि गुणरूपत्वादाराध्यान्येव । अत एव पूज्याऽऽराध्योभयधर्मोपेतत्वात् पञ्चपरमेष्टि- नमस्काराssदि (१) परं यानि सम्यग्दर्शनादीनि चत्वार्याराध्यानि पदानि, तान्येव जैनशासनं । उभयाऽवधारणं चात्रापि - " यद् नाऽन्यत् सम्यग्दर्शनादिभ्यो जैनं सर्वज्ञोद्भावितं शासनं न च तादृशं शासनं व्यतिरिच्य सम्यग्दर्शनादीनि " । ततः सुष्ठुक्तं “जयतु सर्वज्ञशासन 'मिति 'धम्मो वड्ढउ सासओ विजयओ' इत्यादिवत् जयाssशीर्वादस्य प्रशस्यताssवश्यकता चेति ।
असम्भव्यपि यथा जिनेश्वरैर्वरबोधित आरभ्य परार्थोद्यतत्वादशेषजगदुद्धारकरणमभिधार्यते । अभावेऽपि तस्याऽभिप्रेतस्य जगदुद्धारफलस्य तदभिधारणे तेन तु तीर्थंकरत्वं समर्ज्यते निकाच्यते चेति, प्रस्तुतसूत्रकारा अपि प्रस्तुतोपयोग्येवाऽभिप्रेतमाहुः - ' परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा' इति । .
परमसम्बोधिश्व प्रागुक्तवरबोधिलाभरूपोऽन्यो वा ज्ञेयः, सुखभावस्योभयत्राप्यव्याहतत्वात् । भवन्त्विति आशंसाप्रयोगश्च स्वेषां तथाविधवरलाभशून्यत्वाद् अन्यतो वाऽऽगमबोधबोध्या कारणादिति ।
एवमुक्त्वा निगमयन्ति प्रस्तुतं -' इति पावपडिधायगुणबीजाहाणसुत्तं समत्तं ' इति ।