________________
किञ्च यद्यपि जैने शासने पुण्यस्य-पापस्य च स्वतन्त्रतया सत्तेष्यते, तेन पुण्येन पापमितरद्वेतरेण प्रतिहन्यते इति नाऽभिमन्यते । दृश्यते चान्धनृपपुत्राऽऽदिषूभयमपि वेद्यते इति । पर अशुभभावाः शुभभावेनाऽवश्यं निरुध्यन्ते, आश्रवबन्धाऽध्यवसायानां संवरनिर्जराऽध्यवसायनिरोधस्याऽऽगमसिद्धस्वादत आहुः
'असुहभावणिरोहेणं सुहभाववी ति सुप्पणिहाणं सम्मं पढियव्वं (सम्म) सोयच्वं स(सम्म) अणुप्पेहियव्वं 'ति ।
'शुभोदर्काय वैकल्यमपि पापेषु कर्मसु' इत्यादिवचनात् चौर्यायध्यवसायानामप्रतिहतानामपि निद्रादिभिः प्रतिघातस्य दर्शनात् नाऽत्रैवम् , अत्र तु प्रस्तुतप्रणिधानसूत्रपाठादिगतेनाऽथ्यवसायेन विषयाऽऽदिगताऽशुभाऽध्यवसायानां निरोधो भवति । तथैव गताऽऽश्रवाणामेव संवरप्रवृत्तिवद् गताऽशुभाऽध्यवसायानामेतत्पठनादि विदधाति निरोधं, तेनैव चैतत् शुभभाववीजं नियमेनेति स्पष्टयन्ति । एवमुपदर्य सर्व स्पष्टमादेशयन्ति सूत्रकाराः-'पठितव्य 'मित्यादि ।
'इरियासमिए सया जए' इत्यादिवद् विधानाय विधीनामुपदेशः "णियहिज जयं गई'. स्यादिवच्च हेयानां हानायोपदेशः शास्त्रकृतां सदा प्रवर्तत इति कृत्वाऽऽज्ञाभियोगाऽऽद्याशङ्का कार्या प्रत्यपाये शास्त्रकर्ता न शिक्षायै तोषाय वा [य ता] यतन्ते भाविनां प्रत्यपायानामपि अवश्यफलतयैव दर्शनान् स्वयं तद्विधातोद्यता नेति आज्ञावलाभियोगशङ्काऽपि नाऽपैति । किमाज्ञापयन्ति सूत्रकाराः! इति चेत् , प्रणिधानसूत्रमेतत् ! सुप्रणिधानमेवेति हेतोः पठितव्यं श्रोतव्यमनुप्रेक्षयितव्यं चेति ।
एवं चाऽर्यदेशकत्वं यदाचार्याणां शासने गीयते तदेतदाज्ञादानसूत्रेण सत्यापितमाचारिति । पठनादयश्च प्राग विवृता एवेति न वित्रियन्ते । अत्र च प्रणिधानसूत्रं समाप्यते इति दर्शनाय सूत्रकारैः इतिशब्दोऽन्ते धृत इति ।
एवं भवितुकामानां पाठ्यं प्रणिधानसूत्रं समाप्य स्वयमारब्धेषु पञ्चसु सूत्रेषु सूत्रस्याद्यस्य 'णमो वीयरागाण 'मित्यत आरब्धस्य नामज्ञापनपुरस्सरमुपसंहारमाहुः सूत्रकाराः
'णमो णमिअणमिआणं परमगुरुवीधरागाणं ! णमो सेसणमुकारारिहाणं ! जयउ सवण्णुसासणं !!!
'देवा वि तं णमंसंति जस्स धम्मे सया मणो'त्तिवच नाद सर्वेऽपि धर्मपरायणा देवैर्नम्यन्ते ।
किन-श्रीव्याख्याप्रज्ञप्त्युक्तसनत्कुमाराऽदीन्द्रादीनां सर्वदाऽस्त्येव श्रमणानां निर्ग्रन्थानां समाराधना, ततश्च देवादिभिर्नम्या ये गणधरादयो निर्ग्रन्थास्तै ताः . परमवीतरागा इति तेषामर्हता
नतनतत्वम् ।
किञ्च-'तस्मादहति पूजामईन्नेवोतमोत्तमो लोके ।
देवर्पिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानां ॥