Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 134
________________ किञ्च यद्यपि जैने शासने पुण्यस्य-पापस्य च स्वतन्त्रतया सत्तेष्यते, तेन पुण्येन पापमितरद्वेतरेण प्रतिहन्यते इति नाऽभिमन्यते । दृश्यते चान्धनृपपुत्राऽऽदिषूभयमपि वेद्यते इति । पर अशुभभावाः शुभभावेनाऽवश्यं निरुध्यन्ते, आश्रवबन्धाऽध्यवसायानां संवरनिर्जराऽध्यवसायनिरोधस्याऽऽगमसिद्धस्वादत आहुः 'असुहभावणिरोहेणं सुहभाववी ति सुप्पणिहाणं सम्मं पढियव्वं (सम्म) सोयच्वं स(सम्म) अणुप्पेहियव्वं 'ति । 'शुभोदर्काय वैकल्यमपि पापेषु कर्मसु' इत्यादिवचनात् चौर्यायध्यवसायानामप्रतिहतानामपि निद्रादिभिः प्रतिघातस्य दर्शनात् नाऽत्रैवम् , अत्र तु प्रस्तुतप्रणिधानसूत्रपाठादिगतेनाऽथ्यवसायेन विषयाऽऽदिगताऽशुभाऽध्यवसायानां निरोधो भवति । तथैव गताऽऽश्रवाणामेव संवरप्रवृत्तिवद् गताऽशुभाऽध्यवसायानामेतत्पठनादि विदधाति निरोधं, तेनैव चैतत् शुभभाववीजं नियमेनेति स्पष्टयन्ति । एवमुपदर्य सर्व स्पष्टमादेशयन्ति सूत्रकाराः-'पठितव्य 'मित्यादि । 'इरियासमिए सया जए' इत्यादिवद् विधानाय विधीनामुपदेशः "णियहिज जयं गई'. स्यादिवच्च हेयानां हानायोपदेशः शास्त्रकृतां सदा प्रवर्तत इति कृत्वाऽऽज्ञाभियोगाऽऽद्याशङ्का कार्या प्रत्यपाये शास्त्रकर्ता न शिक्षायै तोषाय वा [य ता] यतन्ते भाविनां प्रत्यपायानामपि अवश्यफलतयैव दर्शनान् स्वयं तद्विधातोद्यता नेति आज्ञावलाभियोगशङ्काऽपि नाऽपैति । किमाज्ञापयन्ति सूत्रकाराः! इति चेत् , प्रणिधानसूत्रमेतत् ! सुप्रणिधानमेवेति हेतोः पठितव्यं श्रोतव्यमनुप्रेक्षयितव्यं चेति । एवं चाऽर्यदेशकत्वं यदाचार्याणां शासने गीयते तदेतदाज्ञादानसूत्रेण सत्यापितमाचारिति । पठनादयश्च प्राग विवृता एवेति न वित्रियन्ते । अत्र च प्रणिधानसूत्रं समाप्यते इति दर्शनाय सूत्रकारैः इतिशब्दोऽन्ते धृत इति । एवं भवितुकामानां पाठ्यं प्रणिधानसूत्रं समाप्य स्वयमारब्धेषु पञ्चसु सूत्रेषु सूत्रस्याद्यस्य 'णमो वीयरागाण 'मित्यत आरब्धस्य नामज्ञापनपुरस्सरमुपसंहारमाहुः सूत्रकाराः 'णमो णमिअणमिआणं परमगुरुवीधरागाणं ! णमो सेसणमुकारारिहाणं ! जयउ सवण्णुसासणं !!! 'देवा वि तं णमंसंति जस्स धम्मे सया मणो'त्तिवच नाद सर्वेऽपि धर्मपरायणा देवैर्नम्यन्ते । किन-श्रीव्याख्याप्रज्ञप्त्युक्तसनत्कुमाराऽदीन्द्रादीनां सर्वदाऽस्त्येव श्रमणानां निर्ग्रन्थानां समाराधना, ततश्च देवादिभिर्नम्या ये गणधरादयो निर्ग्रन्थास्तै ताः . परमवीतरागा इति तेषामर्हता नतनतत्वम् । किञ्च-'तस्मादहति पूजामईन्नेवोतमोत्तमो लोके । देवर्पिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानां ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193