Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 132
________________ तिष्ठति, न तु प्रसरमादधाति, तद्वदत्राऽऽदिप्रणिधानसूत्रस्यतस्य पठनादेरुत्पनेन शुभपरिणामेन निकाचितान्य यशुभकर्माणि निरनुबन्धानि कृत्वा भग्नसामानि क्रियन्ते । तत एवाह-'अप्पफले सिआ सुहावणिज्जे सिआ अपुणभावे सियति । तदेतनिकाचितमशुभं कर्म निरनुबन्धं भग्नसामध्यं च जातं, ततस्तदल्पफलं सुखाऽपनेयमपुनर्भावि च स्यादिति । तदेवं अशुभकर्माण्याश्रित्य प्रस्तुतप्रणिधानसूत्रपाठादेः फलं प्रदर्याऽथ शुभकर्माऽऽश्रित्य तदाह"तहा आसगलिज्जति परिपोसिज्जति णिम्मविज्जति सुहकम्माणुबंधा, साणुबंधं च सुहकम्म पगिढ़ पगिट्ठभावजिअं णियमफलयं । ___ मुप्पउत्ते वि अ महागए सुइफले सिया ! मुहपवत्तगे सिया ! परमसुइसाहगे सिआ!' इति । __ यद्यपि 'कृत्स्नकर्मक्षयो मोक्ष' इत्यादिवचनाद् भवितुकामानामसुमतामशुभकर्माऽनुबन्धा इव शुभकर्माऽनुबन्धा हेया एव, परं अव्यवहारराशेनिर्गमादारभ्य यावदयोगिगुणस्थानं प्राप्यते, तावत् त्रसत्वादिसम्पादनद्वारा मुक्तिगामुकानां तदेव सहायकर, तत एषां या हेयता साऽयोगिमान्ये नार्वाक 'ताणि ठाणाणि गच्छन्तीत्यादि 'देवे वा वि महिड्डिए' इत्यादि ‘से दसंगेऽभिजायई'त्यादि चाऽऽगमोक्तमवधारयन् कोऽप्युत्कों भवति वक्तुं यदुत-प्राक् समुद्घातात् अयोगऽभावाद्वा पुण्यानां क्षेयता, शुभकर्मणां मोक्षसाधने सहकारिभावेऽसाधारण एव, न झेतावति अतीतेकाले कोऽपि बादर-त्रसत्वाद्याप्तिमन्तरोपेतो मोक्षमिति । एवं प्रागुक्तयुक्तेः शुभकर्मणां सङ्ग्राह्यत्वात् प्रस्तुतस्य प्रणिधानसूत्रपाठादेः शुभकर्मानुबन्धमाश्रित्याह-'आसगलिजंति 'त्यादि। तत्र चयो-पचय-बन्धा आसकलनानि, सङ्क्रमणोद्वर्तनाsदिभिः परिपोषणं, अल्पप्रदेशाऽऽदीनां बहुपदेशादिकरणं निर्माणं । तथा चैतत्प्रणिधानसूत्र- . पाठादिभिः सकलीकरणादीनि त्रीण्यपि शुभकर्माऽनुबन्धानां भवन्तीति ।। एवमभिनवं शुभानुबन्धमधिकृत्य प्रणिधानसूत्रपाठादुक्वा फलं शुभकर्माऽनुबन्धं जातमधिकृत्य तस्य तदाह-'साणुबंधं च सुहकम्मं ति । यः कश्चित् प्रणिधानसूत्रस्य पाठादिकं करोति शुभकमांनुबन्धवांश्च प्राक्तनैः कैश्चिद् हेतुभिः प्रागेव भवति च तस्य तत् शुभानुबन्धं कर्म सानुबन्धं पारम्पर्येण पुण्यानुबन्धयुतं जायते, तथा च 'दया भूतेषु वैराग्य मित्यादिवद् अनेन पाठादिना पुण्यानुबन्धिपुण्यं स समुपार्जयति, न केवलं पुण्यानुनन्धिपुण्यमनेनाऽर्जयति, किन्त्वर्जितमपि केनचिद् दयाऽऽदिना हेतुना, तच्चेत् प्रागेवात्मसाद् भवेत्तदा तत् प्रकृष्ट पुष्टं करोति, पुण्याऽनुबन्धिपुण्यस्य समुपार्जनं प्रकृष्टभवाऽर्जितं करोति । तथा ज

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193