Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 116
________________ ( ७८ ) तया मूर्त्तत्वाद्भवतः, अतस्तत्त्वतः परमेष्ठिपञ्चक एव धर्मस्तद्गतत्वाच्च तत्संयोग एव धर्मस्य संयोग इति चेतसिकृत्याऽर्हदादिसंयोगप्रार्थनाया एव सुप्रार्थनात्वमभिमतम् । एवं चात्र सम्यग्दर्शनाऽऽदीनाम् आराध्यत्वं, पूज्यत्वोपेतं तु परमाराध्यत्वमर्हदादीनामेवेति पूज्याऽऽराध्योभयधर्मवतामर्हदादीनां संयोगप्रार्थना, तस्या एव सुप्रार्थनात्वं चेति । यद्यपि अर्हदाद्याः परमेष्ठिनो जगतः समग्रस्यापि कल्याणाssवहाः यथास्थिता जगद्गुरवश्च, यतस्त एवाऽऽष्टादशदेश्यभाषाव्यामिश्रयाऽर्धभागध्या जीवादितत्त्वनिर्देशकाः, येनाssवालगोपालं तखमार्ग प्रतिपद्यन्ते, परंतु कतिचिद्विद्वद्गम्यया संस्कृतया तत्वमाचक्षाणां न जगद्गुरुत्वमार्गेऽपि । परं न ते परमेष्ठि विद्यमानमात्रत्वेन जगतः कल्याणावहाः, किन्तु भक्ति बहुमान पूजाssदिविषयं प्रापिता एव कल्याणाऽवहाः । अत एव च महत्त्वेऽप्यर्हतां तेभ्योऽपि भक्त्या दिरतिशयेन महत्त्वम् । तत एवं परमेष्ठिमन्त्रे ' नमोऽर्हद्भ्य' इत्यादौ नमस्कार्येभ्यो नमस्कारस्य प्राक् पाठः । अत एवं प्राप्याह - ' होउ मे इत्थ बहुमाणो 'ति । चहुमानश्चान्तरः, प्रतिबन्धः, सत्येवाऽस्मिन् सेवा भक्त्यादीनां प्रशस्यता, सति च बहुमाने सेवादेर्भावेऽभावेऽपि अतिशयितस्य फलस्य प्राप्तिः, बहुमानरहितस्य तु सेवादयो जायमाना अपि पालकवद् द्रव्यफलमात्रदानप्रत्यला निष्फला वा भवेयुः, अतो युक्तमेवोक्तं भवतु ममाईदादिपरमेष्ठिषु बहुमान इति । परमेष्ठिप्रभृतीनां नमस्कारादेर्द्रव्य-भावभेदेन वैकल्पिकत्वदर्शनाय तन्निरासायाह - ' होउ मे इओ मोक्खवी 'ति । प्रकृष्टोऽयं बहुमानो द्रव्यतोऽनुष्ठीयमानोऽपि, अत एव ' जाव अरिहंताणं णमुक्कारेणं ण पारेमि ' त्ति तत्पदोच्चारणान्तगामिनी प्रतिज्ञा, 'हिययं अणुम्मुयंतो 'त्यादि च नियुक्तिकाराssदिवचः, अतः प्राणान्त्यभागे तदुच्चारणप्रवृत्तिः । अज्ञानानां तिरश्चामपि तदा तच्छ्रावणं श्रीपार्श्वकुमारचरित्रे चारुदत्तकथानकाssदिषु च फलवत्तया दर्शितं प्रेत्य सत्प्रत्यायातानां (1) तत्पदश्रवणेन जैनदर्शनस्याऽभ्युपगमाऽऽदि च हुण्डिकयक्ष - राजकुमारकथादिषु प्रसिद्धतममेव, परमत्र सर्वपापप्रणाश- सर्वमङ्गलायमङ्गलत्वेन क्रियते बहुमान परमेष्ठिनामिति भाव्येव बीज एष मोक्षस्येति सम्प्रधार्य प्रोक्तं- ' 'भवतु ममेतो मोक्षबीजमिति । परमेतावता ग्रन्थेन 'धन्यास्ते ग्रामनगराद्या ' इत्यादि यत् सिन्धु-सौवीराधीशेनोदायनेन प्राप्यतया प्रार्थितसमागमस्य दर्शितः, परं नहि समदेशादिसंयोगमात्रेणाऽर्थसिद्धिः, किन्त्वन्यथाविधेन विधानेन । ततः ' तं महाफलं खलु ' इत्याद्योपपातिकसूत्र वर्णितचम्पानगर्यभिजनवदभिगमन- नमनादिकायाः सेवायाः प्रार्थनार्थमाह-' पत्ते एएस अहं सेवारिहे सिये 'त्यादि ।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193