________________
( ७८ )
तया मूर्त्तत्वाद्भवतः, अतस्तत्त्वतः परमेष्ठिपञ्चक एव धर्मस्तद्गतत्वाच्च तत्संयोग एव धर्मस्य संयोग इति चेतसिकृत्याऽर्हदादिसंयोगप्रार्थनाया एव सुप्रार्थनात्वमभिमतम् । एवं चात्र सम्यग्दर्शनाऽऽदीनाम् आराध्यत्वं, पूज्यत्वोपेतं तु परमाराध्यत्वमर्हदादीनामेवेति पूज्याऽऽराध्योभयधर्मवतामर्हदादीनां संयोगप्रार्थना, तस्या एव सुप्रार्थनात्वं चेति ।
यद्यपि अर्हदाद्याः परमेष्ठिनो जगतः समग्रस्यापि कल्याणाssवहाः यथास्थिता जगद्गुरवश्च, यतस्त एवाऽऽष्टादशदेश्यभाषाव्यामिश्रयाऽर्धभागध्या जीवादितत्त्वनिर्देशकाः, येनाssवालगोपालं तखमार्ग प्रतिपद्यन्ते, परंतु कतिचिद्विद्वद्गम्यया संस्कृतया तत्वमाचक्षाणां न जगद्गुरुत्वमार्गेऽपि । परं न ते परमेष्ठि विद्यमानमात्रत्वेन जगतः कल्याणावहाः, किन्तु भक्ति बहुमान पूजाssदिविषयं प्रापिता एव कल्याणाऽवहाः । अत एव च महत्त्वेऽप्यर्हतां तेभ्योऽपि भक्त्या दिरतिशयेन महत्त्वम् । तत एवं परमेष्ठिमन्त्रे ' नमोऽर्हद्भ्य' इत्यादौ नमस्कार्येभ्यो नमस्कारस्य प्राक् पाठः । अत एवं प्राप्याह - ' होउ मे इत्थ बहुमाणो 'ति ।
चहुमानश्चान्तरः, प्रतिबन्धः, सत्येवाऽस्मिन् सेवा भक्त्यादीनां प्रशस्यता, सति च बहुमाने सेवादेर्भावेऽभावेऽपि अतिशयितस्य फलस्य प्राप्तिः, बहुमानरहितस्य तु सेवादयो जायमाना अपि पालकवद् द्रव्यफलमात्रदानप्रत्यला निष्फला वा भवेयुः, अतो युक्तमेवोक्तं भवतु ममाईदादिपरमेष्ठिषु बहुमान इति ।
परमेष्ठिप्रभृतीनां नमस्कारादेर्द्रव्य-भावभेदेन वैकल्पिकत्वदर्शनाय तन्निरासायाह - ' होउ मे इओ मोक्खवी 'ति ।
प्रकृष्टोऽयं बहुमानो द्रव्यतोऽनुष्ठीयमानोऽपि, अत एव ' जाव अरिहंताणं णमुक्कारेणं ण पारेमि ' त्ति तत्पदोच्चारणान्तगामिनी प्रतिज्ञा, 'हिययं अणुम्मुयंतो 'त्यादि च नियुक्तिकाराssदिवचः, अतः प्राणान्त्यभागे तदुच्चारणप्रवृत्तिः । अज्ञानानां तिरश्चामपि तदा तच्छ्रावणं श्रीपार्श्वकुमारचरित्रे चारुदत्तकथानकाssदिषु च फलवत्तया दर्शितं प्रेत्य सत्प्रत्यायातानां (1) तत्पदश्रवणेन जैनदर्शनस्याऽभ्युपगमाऽऽदि च हुण्डिकयक्ष - राजकुमारकथादिषु प्रसिद्धतममेव, परमत्र सर्वपापप्रणाश- सर्वमङ्गलायमङ्गलत्वेन क्रियते बहुमान परमेष्ठिनामिति भाव्येव बीज एष मोक्षस्येति सम्प्रधार्य प्रोक्तं- ' 'भवतु ममेतो मोक्षबीजमिति ।
परमेतावता ग्रन्थेन 'धन्यास्ते ग्रामनगराद्या ' इत्यादि यत् सिन्धु-सौवीराधीशेनोदायनेन प्राप्यतया प्रार्थितसमागमस्य दर्शितः, परं नहि समदेशादिसंयोगमात्रेणाऽर्थसिद्धिः, किन्त्वन्यथाविधेन विधानेन । ततः ' तं महाफलं खलु ' इत्याद्योपपातिकसूत्र वर्णितचम्पानगर्यभिजनवदभिगमन- नमनादिकायाः सेवायाः प्रार्थनार्थमाह-' पत्ते एएस अहं सेवारिहे सिये 'त्यादि ।