SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (७७), .. यद्यपि 'पुण्यं सत्कर्मपुद्गला' इतिवचनाद् अवध्यायतिशायिनो विदन्त्येवं पुण्यं परमंत्राधिकृतं शुभाऽऽत्माध्यवसायरूपं न विदन्त्येव, अमूर्तव्वात् तेषाम् । ........ किञ्च-गर्हणीयं दुष्कृतं केवलं स्वकृतत्वात् ज्ञेयं सामान्येन स्वभावतः सर्वैः, परमत्राऽधिकृतं तु ' अर्हत्त्वादिरूपमिति गम्यम् । अनुशास्तेवेत्यादौ तामिच्छति 'इच्छामी ' त्यादिना, केषामनुशास्तिमित्याह-' अर्हतां भगवता' मिति । द्वादशाङ्गमपि प्रवचनमर्थाऽपेक्षया तैरेव प्रणयनात् तेषामनुशास्तिमिति । , न च वाच्यमर्थाऽपेक्षया द्वादशाङ्ग्या नित्यत्वाद् कथं तदपेक्षया अर्हर्ता भगवतां प्रणयनेन । कर्तृत्वमिति, लोकसिद्धि-जीवादयो ये वाच्याः पदार्था, ते न केनचित् कृता इति द्वादशाझ्या वाच्यं नित्यमेव, परं तेषां लोकाऽस्तिखादीनामर्थानां प्रणयनं तु भगवन्तोऽर्हन्त एव कुर्वन्ति, ततोऽर्थनिरूपणचण-वचननिरूपणप्रवणतया अर्थप्रणयिनोऽर्हन्त इति । . . . एवमर्थाऽपेक्षया आत्माऽऽगमवतामर्हतामनुशास्तिमिष्ट्वा अधुना अर्थाऽऽगमापेक्षयाऽनन्तरपरम्पराऽऽगमवतां सूत्रापेक्षया चात्मा-नन्तर-परम्पराऽऽगमरूपत्रिविधाऽऽगमवतां भगवतां कल्याणमित्राणां गुरूणानुशास्तिमिच्छन्नाह-' गुरुणं कल्लाणमित्ताणं 'ति । गुरुशब्द-कल्याणमित्रशब्दौ च पूर्ववत् , चकारस्य द्योतकाऽव्ययत्वात् अहरहरित्यादिवदत्राध्याहारः, ततश्च द्वयानामेषामनुशास्तिमिच्छामीति सण्टङ्कः । अनुशास्तिश्च नैकशः संसर्गमात्रेणाऽऽप्येत, आप्तेऽपि च तथाविधज्ञानिसंसर्गतः सा नाऽवतिष्ठते परमार्थज्ञातृमहापुरुषाणां प्रतिदिनं सेवामन्तरेण । अत एवोच्यते-'सुहगुरुजागो तव्वयणसेवणा आभवमखंडे 'ति 'प्रत्यहं धर्मश्रवण 'मित्यादि । ततस्तादृशप्रावचनिकपुरुषाणां प्रतिदिनं संसर्गाथै तत्प्रार्थनामाह-"होउ मे एएहिं संजोगो 'ति । एतदः समीपतराऽर्थवाचकत्वादेतैः-समीपतरमुक्तैरर्हद्भिर्भगवद्भिर्गुरुभिश्च कल्याणमित्रः सर्वकल्याणमूलत्वात् सर्वासु प्रार्थनासु एतैवाऽहंदादिभिः संयोगस्य या प्रार्थना सा सुप्रार्थना । तत आह-'होउ मे एसा सुपत्थणे 'ति । अत्रोपलक्षणात् स्यात् सिद्धानां ग्रहणमर्हद्वदेवाऽन्यूनाऽतिरिक्तदेवस्वरूपकत्वात्तेषां, परमेष्ठिपञ्चके तेषामर्हद्भिः सहोचाराच्च, परं भवाऽतीतत्वेनाऽशरीरत्वात् संयोगस्तैन भवतीति पूज्यानामप्येषां नाऽत्रोपलक्षणतया ग्रहणं, गुरु-कल्याणमित्रशब्देन चाऽऽचार्यो-पाध्याय-साधुरूपं पदत्रयं परमेष्ठिगतं गृह्यत एव । .. यद्यप्युभयावधारणेन सम्यग्दर्शन-ज्ञान-चारित्र-तपांसि धर्मः प्रतिवन्धककर्माऽपगमप्राप्यमोक्षहेतुतया च सम्यग्र्शन-ज्ञान-चारित्राण्येव मोक्षमार्गः, परं स धमों मार्गश्च नाऽऽधेयमन्तरेण स्वतन्त्र
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy