________________
(७६) ... गर्दास्य कृतायां गायां उज्झिते च तस्मिन् शास्त्रसिद्धे न प्रायश्चित्तपदेनैव शुद्धिरित्युक्तम्मिच्छा मि दुक्कडं 'ति ।
... यद्यपि अस्य पदस्य ‘मिति मिउ मदवत्ते' इभ्यादिः निरुक्तोऽस्त्यर्थः, परं. पदार्थस्तु मया यत् कृतं तद् दुरितमिति स्वीकरोमि, तस्य फलं मा मम भूदिति ज्ञापनपुरःसरं वाक्यप्रयोगो 'मिथ्या मे दुष्कृतमिति ।
प्रतिक्रमणं चेदं, पापानां शोधकं च तत् द्वितीयं निर्जरायां प्रायश्चिताद् मिति, कृतानामधानां क्षयस्याऽभावे तु सर्व तपआदि धर्मकृत्यं वृथा स्यात् , ततः स्वीयपापशुद्धये योग्यमुक्तम्-'मिथ्या दुष्कृत ' मिति । - अनुबन्धाऽव्यवच्छेदार्थमाह-' होउ मे एसा सम्म गरिहा, होउ मे होउ मे अकरणणियमो, बहुमयं ममेयं 'ति । यथा परेपां विषय-सतताभ्यासानुवन्धप्रकाराः तथा शासने जैने हेतु-स्वरूपाऽनुबन्धाः त्रयः प्रकाराः । तत्र गर्हादुष्कृते. योगाद्या हेतब उक्ताः, लोकोत्तराऽऽत्माऽऽदिषु वितथाssदिषु वितथाऽऽचरणाद्युक्त्वा तत् अर्हदादिसमक्षं गर्हितमिति हेतु-स्वरूपयोरुतत्वाद् अनुवन्धाsव्यवच्छेदार्थमेवेदं भवतु ममैषा सम्यग् गर्हेति। - केचनाऽज्ञा गर्हाया अभ्यन्तरतपोरूपतया महानिर्जराङ्गत्वं, गर्हायाः स्वरूपतः अतिमुक्तादिवत् महाफलप्रापकत्वमाविष्कृत्य अप्रायश्चित्तस्य गह्रया अविषयत्वाद् गर्थिमेव गर्दा विषयपापकरणस्य इष्टतात्माचक्षते; कुर्वते ते च तदपेक्षया तत् परं नैतत् सम्यग्, तथाकारिणां हि मृषावादितादोपभाजनत्वमाम्नायते, तत् सर्वं मनसिंकृत्याऽऽह असौ भवतु मे अकरणनियम इति ।
कृता चैषा न वेष्ट्यादिकल्पा यथोक्तफला, किन्तु स्वपरिणतिक्षालनजनितैवैषा यथोक्तफलेल्युक्तम्-वहुमतं ममैतद् वितथाऽचरणादीनां गर्हणादीति ।
तदेवं तथाभव्यत्वपरिपाकसाधनेषु भवितुकामेन कर्तव्येषु च त्रिपु वस्तुपु चतुःशरणगमनदुष्कृतगर्दारूपं वस्तुव्यमुक्तं, शेषमथ सुकृतानुमोदनाऽपरपर्यायं सुकृतसेवनावस्तु वक्तुकाम इदमाह- 'इच्छामि अणुसद्धिं 'ति । . .
' ' यथा आत्मादयोऽजीन्द्रियार्थाः केवलमात्रज्ञेयाः तद्वदेव आत्माऽध्यवसायसमुत्था पुण्यादयोऽप्यर्थाः तज्ज्ञानज्ञेया एवेतिकृत्वा ‘सुच्चा जाणइ कल्लाग 'मित्यार्पाच्च अहंदाद्यनुशास्तिमन्तरा सुकृतानामेव ज्ञानाभावादाह-इच्छाम्यनुशास्ति' मिति ।
. अनेकविधत्वेऽपि अहंदाद्यनुशास्तीनामत्र प्रकरणानुगुण्यार्थं सुकृतसम्बन्धिनीमनुशास्तिमिच्छामीति ज्ञेयम् ।