Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 124
________________ (८६) चारित्रेण रहितयोरपि सम्यग्दर्शन-ज्ञानयोर्मोक्षसाधनत्वात्तदनुमोदनार्थमाह सव्वेसि सावगाणं मोक्खसाहणजोगे'त्यादि । यथैव चौपपातिकसूत्रे श्रीवीरदेशनायां निग्रन्थानामनगारधर्मिणामाज्ञया आराधकत्वमाख्यातं तथैव श्राद्धधर्मिणामप्याज्ञयाऽऽराधकत्वमुक्तं, किन्तु श्राद्धानां देशतो हिंसादिभ्यां विरमणरूपं चारित्रमभिमतं च तत्फलतयैव 'जन्मभिरष्टव्येकै 'रिति ‘स सिध्यत्यन्तर्भवाष्टक 'मित्युक्तेरस्ति श्रावकाणां मोक्षसाधनयोगः, तत एव तेषां श्रावकाणां तस्य मोक्षसाधनयोगस्याऽनुमोदनं योग्यमेव । न च वाच्यं श्रावकाणां देशतो हिंसादिभ्यो विरतत्वेऽपि देशतोऽविरत्वेन सावद्याऽऽरम्भकत्वादयोगोलकल्पत्वान्नानुमोदनं योग्यम् , अनुमोदने च तेषां पार्श्वस्थाऽऽदीनां वन्दनादिभिः तद्गतानां प्रमादस्थानानामनुमोदनवत् श्रावककृतानां सावधानामनुमोदनप्रसङ्ग इति । ____ यतो यो हि यत्र यत्र यावान् मोक्षमार्गयोगः, स तत्र तत्राऽनुमोद्य एव, अन्यथा सूत्रस्य चास्य व्यर्थकत्वापत्तेः । कामदेवाऽऽदीनामुपसर्गसहनादिकार्यस्य यावत् सूर्याभादीनां वन्दनादिकार्यस्य भगवता वीतरागेणैवाऽनुमोदनादिति । ___ पार्श्वस्थादयस्त्वारूढगुरुपदा अपि गुरुपदस्यायोग्यानां स्थानानां परिषेवका इति तद्वन्दनादिभिर्गुरुपदाऽयोग्याऽऽचाराणामनुमोदनप्रसङ्गः । न च सद्गुरुवन्दनसूत्रेभ्यो भिन्नानि पार्श्वस्थाऽऽदिवन्दनसूत्राणि, ततश्च गुरुपदाद् दूरवर्त्तिनां गुरुवन्दनसूत्रेण वन्दने स्यादेव तदीयप्रमादस्थानानामनुमोदनम् , यथा सद्गुरुणां वन्दनेन भावुकानां 'तं महाफलं खु' इत्यादिसूत्रवर्णितो महालाभ इति । ___यदि च वन्दनीयानामवगुणैरात्मा लिप्यत एव वन्दनकानां, तर्हि छद्मस्था असर्वज्ञाश्चाचायांदयोऽवन्दनीया भवेयुभवेयुर्वा तदात्मस्थानां मोहादीनां दोषाणामनुमोदनमिति कृतम् । श्रावकाणामनुमोद्य एव मोक्षसाधनयोग इति । न केवलमेतदेवाऽनुमोद्य सम्यग्दर्शननादिगतं मोक्षसाधनत्वम्, किन्तु सततं रतिलीनानां सम्यग्दर्शनमात्रगुणवतां तदन्येषामपि च यो यः कल्याणाशयेन मार्गसाधनयोगः सोऽनुमोद्य इत्याह'सव्वेसिं देवाणं सबसि जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे इति । अनुमोदयामीत्यनुवर्तत एव 'अणुमोएमि सव्वेसि अरिहंताण' मित्यतः । न च वाच्यं मोक्षसाधनगुणानामस्त्वनुमोद्यता, अत्र तु भिन्नस्तस्मान्मार्गसाधनयोगः कथ्यते, ततश्च कथं तस्यानुमोद्यतेति, सत्यम् !, यथा मोक्षसाधनतयाऽनगारागारधर्माणामाराधनोपयोगिनी, तथैव सकृद्वन्धादीनामन्त्यपुद्गलावर्तभाविनां जीवानां शुभाऽध्यवसायप्रवृत्तिरभ्युपगम्याऽनुमोद्या च । अत एव शक्रस्तवे 'धम्मदयाण 'मित्यादिपदेभ्यो 'मग्गदयाण 'मित्यादीनि पदानि भिन्नार्थकानि प्रतिपादितानि, सकृद्वन्धकाऽपुनर्वन्धक-मार्गपतित-मार्गाऽभिमुख-मार्गानुसारिप्रभृती

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193