Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 70
________________ (३०) किञ्च-आचार्यादयः परमेष्ठिस्वरूपा अपि साधुपदेन शरणतया स्वीकार्या अपि न मुक्तिगतिपर्यवसाना नियमेन तद्भवे भवन्ति, परं भगवन्तोऽर्हन्तस्तु सर्वेषां भव्यानामादर्शरूपा इति मोक्षपर्यवसाना एव यदि स्युस्तहि ते परमात्मतयाऽऽदर्शरूपतयाऽऽराध्या शरण्याः स्युरित्यवश्यं भगवतामर्हतां शरणस्य याथार्थ्याय सिद्धिस्तद्वन्तश्च सिद्धाः स्वीकार्याः, शरणं च तेषां स्वीकर्तव्यं सर्वबाधाऽतीत-सर्वगुणपूर्णत्वात्तेषामिति । तथा च भगवतां सिद्धानां निराबाधं सर्वकालं सम्पूर्णगुणवत्तयाऽवस्थानमेव भव्यानां परमाऽऽलम्बनं मोक्षमार्गस्याऽनुसरणायेति कथं तेऽकरणा अर्हन्ति शरणं कर्तुमिति विचारस्य नावकाशः । एवमर्हच्छरणवदेवाऽन्यूनाऽतिरिक्ततया सिद्धाः शरणमिति दर्शितम् । तेन चैतदपि प्रतितक्षिप्तमेव, यदुत-सिद्धाः कृतार्था इति योग्याः शरणं विधातुः, तद्विपरोता एमाहन्तः कर्मोदयाद्यधीनत्वात्तेषां इति कथं शरणत्वमिति, यतः केवलज्ञानाचा आत्मगुणा निराबाधं सम्पूर्णा एवार्हतामपीति योग्या एव ते शरणं कर्तुम् । किञ्च-अत्र यदादी सिद्धशरणादहन्छरणस्य स्वीकारस्तस्यैषोऽर्थः-यदुताऽहंदुपदेशेन सिद्धत्वावाप्तिः, सिद्धानां सदा सत्त्वं, सिद्धार्गश्च भगवदर्हत्प्रामाण्यादेव प्रामाण्यपदवीमासादयति, ततश्च भंगवताहतामेवादो प्रणामस्य स्वीकारो न्याय्यः शरणं चाप्यत एव तेषामादौ, न हि कारणात् क्वचिदपि पूर्व कार्य स्याद्, अर्हन्त एव च सिद्धभावस्य कारणमित्यापि प्रागेवाहतां शरणे स्वीकारो न्याय्य इति । अत्र भगवतां सिद्धानां प्रागेव जन्म-जरा-मरणकारणीभूतानां कर्मणां विच्छेदो जायते इति तमेव गुणमादावाहुः, आऽपि-'छिण्णजाइ-जरा-मरण-बन्धणे 'त्ति पठ्यते । किञ्च-त एव सिद्धशब्दवाच्याः स्युर्ये जाति-जरा-मरणानि तन्निबन्धन-कर्मवल्लीनिर्मूलनद्वारा छिन्द्येयुः, अन्येषां जन्माऽनुरादिसद्भावे शरीरादीनां तवारैव तज्जन्यानां जन्मादिदुःखानां चाऽवश्यं भावेन कृतकृत्यत्वाभावात् सिद्धत्वाभावादिति । नैयायिकानां यथा वीतरागाणां जन्मादर्शनं, तथाऽत्राऽऽर्षे प्रवचने वीतरागत्वे वास्तां, अप्रमत्तदशायामपि न प्रेत्य-जन्मकारणस्यायुषो बन्धः, न चायुष उदयाभावे कासाञ्चिदपि गत्यादिप्रकृतीनामुदय इति । सिद्धत्वस्याऽऽयं कारणं जन्माऽन्तरस्यायुषो बन्धस्याभाव इति । जन्माऽभावे च जरा-मरणयोस्त्वभावः स्वभावसिद्धत्वात् एव, प्रतिपादनं तु जरा-मरणयोरभावस्यावालगोपालाङ्गनं ताभ्यां भयातिरेकस्य स्वभावसिद्धत्वात् । अनेनैतदपि ज्ञाप्यते, यदुत सिद्धानां निरावाध-ज्ञान-दर्शन-सुख-वीर्याऽनन्त्यरूपचतुष्टयपूर्णत्वेन नित्याऽऽनन्दमयत्वात्तदवस्थायाः परमाऽऽश्रयणीयत्वेऽपि आबालगोपालगनं सिद्धं जरा-मरणोद्भवं सर्वाss"स्तिक-नास्तिकस्वीकार्य, जन्मभयं च सिद्धावस्थायां सत्यां न भवतीत्यर्विवादेनैव सर्वैरपि जन्म-जरामरणभयैरवश्यमेष्टव्यं सिद्धत्वमिति ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193