Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 77
________________ (३७) निराबाधमेतदेव - यदात्मैव ज्ञानादिस्वभावैः तत्तत्क्षयोपशमाद्यनुसारेण चाडवाप्नोति वोधमिति । ततश्च सिद्धाः भगवन्तः सर्वथा कर्मकलङ्करहिता इति केवलज्ञानदर्शनधरा इति । नन्वेतादृशोऽप्येते क्वचिन्नियतदेशस्थिता अनियतदेशस्था वेति ?, नियत एव देशे ते स्थिता इति, आदौ तावत् जीवानां स्वस्वभाव ऊर्ध्वगमनरूप एव यथा धूमाऽऽग्निज्वालाssदीनाम् । अत एव सकर्मणां जीवानां गत्यन्तर-स्थानप्राप्यर्थमानुपूर्वीनाम्न आवश्यकता, गत्यादिनाम्नां चोदयस्थानुकूल - - क्षेत्रप्रापणं चावश्यकं मन्यते, मुक्तिश्च साधनैः सम्यग्दर्शन ज्ञान - चारित्रैरेव जन्यते तानि च साधनानि - नरलोकाद् बहिर्न सम्भवन्ति, जिनेन्द्रोत्पत्त्यादीनां नरलोक एव तद्धेतूनां भावात्, तत्रैव नरोक एव मुक्तेः साघनं, मुक्ताश्च नरलोके सम्यग्दर्शनाऽऽदिभिः साधनैरूर्ध्वमेव स्वभावाद् गच्छन्तः सिद्धिपर्यवसानगतिका एव भवन्ति। अत एव 'लोयग्गमुत्रगयाण' मिति 'तत्थ गंतूण सिज्झई'त्यादि चोच्यते । ननु जीवा ऊर्ध्वगमनस्वभावा एव, मुक्ताश्च कर्मप्रेरणारहिताः स्वस्वभावेनैवोर्ध्वं गच्छन्ति चेत् ?,. सिद्धशिलायां लोकाग्रे वा कथमवस्थिता भवेयुः ? किं न परतोऽपि स्वभावात् गच्छेयुरूर्ध्वमिति चेत् ? सत्यं, ? परं जीवानां पुद्गलानां च गतिपरिणतानामपि गतिपरिणामाऽऽपन्नानामपि मत्स्यानां - गत जलमित्र धर्मास्तिकाय एवावष्टम्भकः । स च न लोकाग्रात् परत इति सिद्धानां लोकाय एव स्थानम् । ननु धर्मास्तिकायस्य सत्त्वमेव कथं बोद्धव्यामिति चेत्, सत्यं पारमर्षप्रवचनवचनात् तच्छ्रद्वातुमर्हम् । किञ्च-यदि न स्यात्तादृग्दव्यं जीव- पुद्गलानां गतेर्नियामकम्, अलोकस्याऽपरिमितत्वात्, सर्वे जीवाः पुद्गलपरमाणवश्च तथा तथा नियामकाऽभावाद् गच्छेयुर्यथा जीवानामजीवानां दृश्यमाना अनुभूयमाना आवश्यकाश्च संयोगा एव न स्युः । दृश्यन्ते, उपलभ्यन्ते, उपपद्यन्ते च ते संयोगा इति लोके तेषां गतेर्नियामकतयाऽवश्यमभ्युपेय एव धर्मास्तिकायः, तदभ्युपगमे परतस्तद्भावादेव न सिद्धानां - गतिरिति योग्यमेव सिद्धानां भगवतां लोकाग्रे सिद्धिपुरेऽवस्थानमिति । किञ्च--चतुदर्शरज्ज्वाऽऽत्मकोऽयं लोको यत् त्रिधाऽधस्तिर्यगूर्ध्वलोकभेदेन तिष्ठति । तत्र लोकाऽनुभावादेवाऽधोलोके पुद्गलानामशुभतर एवाऽनुभावः, यद्वशान्नरकक्षेत्राणामशुभतरत्वात्तीत्रतीव्रतर तीव्रतमवेदनानां भवत्युद्भवः । तिर्यग्लोके मध्यमानुभावो लोकाऽनुभावादेव पुद्गलानां विद्यते, ततश्च तिर्यङ्-मनुष्यास्तत्र वर्तमानाः मध्यमरीतिजानि सुखानि वेदयन्ति तद्वदेव चोर्ध्वलोके ये वर्तन्ते पुदगलास्ते शुभ-शुभतर-शुभतमाऽऽदिपरिणामा लोकाऽनुभावादेव भवन्ति यावत् सर्वार्थसिद्धस्थाने सर्वलोकगतजीवाऽपेक्षया प्रकृष्टपुण्यवन्तो जोवा उत्पद्यन्ते, प्रकृष्टतरं च सातावेदनीयं क्षेत्रानुभावजातशुभपुद्गलसंयोगादनुभवन्ति, पौगलिकत्वात् सातावेदनीयकर्मगः, तस्मादप्युपरितने भागे या सिद्धशिला तत्र तदुपरितने च भागे पुद्गलानां लोकाऽनुभावादेव परमशुभतरत्वे किञ्चिदपि चोद्यं न तिष्ठति ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193