Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 91
________________ (५१) प्राप्तिनं चेतोमात्रवृत्त्या किन्तु चारित्रानुष्ठानेनैव । यद्यपि ज्ञानादिवच्चारित्रमप्यात्मगुण एव, अत एव च कर्मस्वष्टसु तस्य चारित्रगुणस्य मोहक दर्शनमोहसहचरं कर्माऽभ्युपगम्यते, अभ्युपगम्यते च सयोग्यादीनामपि यथाख्यातनामकं चारित्रमिति, सत्येवं चारित्रस्याऽऽमगुणत्वेऽपि तस्याऽऽविर्भावो रक्षा, वृद्धिः, पराकष्ठााधिगतिश्चेत्येतत् सर्वं ग्रहणाऽऽसेवनाख्यद्विविधशिक्षाया अधीनमेव । शिक्षाद्वये चाधिगत एव चारित्राऽऽविर्भावाद्या भवन्ति, तत एव च सकछेन्द्रियाणामपि शिक्षादेरयोग्यानां न चारित्रसत्तादि, शिक्षाद्वयं च प्रागुक्तं नाऽतीतेभ्योऽर्हद्भ्यः , तत्सत्त्वकालेऽपि नैते सर्वतीर्थयोग्यक्षेत्रेषु यावज्जोवं सर्वदा विहारिणः । न चाऽशरीराः सच्चिदानन्दपूर्णा अपि सिद्धा भगवन्तस्तद्वयं विधातुमीशाः, सर्वत्र क्षेत्रे काले च तच्छिक्षाद्वयस्य प्रचारमनगाराः साधव एव निर्ग्रन्थाः कुर्युरिति । वस्तुतस्तेषामापत्त्राणाऽऽदिधर्मयुक्तत्वात् शरणार्हतामभिमन्यमान आराधक आह-तहा पसंतगंभोरासयत्ति । तथा शब्देन प्रकार-सादृश्यवाचिना पूर्वोक्तशरणद्वयकारस्य तुल्यतां दर्शयन्निदमाह-यदुत 'एते भगवन्तोऽनगाराः, नाऽहंदादिवद्वीतरागसर्वज्ञतापदाः। यथा अर्हन्त.तीर्थस्थापनेन मोक्षमार्गस्य प्रवर्तकत्वात् कृतकृत्या असाधारणोपकारिणश्च, सिद्धाश्च भगवन्तः सर्वदा साद्यनन्तभङ्गेन सच्चिदानन्दपरिपूर्णतया सम्पूर्णकृतकृत्याः परमपदाऽऽराधकानां च भव्यानां परमालम्बनभूतास्तथा नैते सम्पूर्णकृतकृत्यतां याताः, तथापि भगवदर्हदादीनामिव मोक्षमार्गस्य वाहकतया तदनन्यपरमार्थतया प्रवृत्तत्वाच्च भगवदहदादिवदेवाऽन्यूनाऽतिरेकशरणाऽऽश्रयभूता इति । अत एव परममेष्ठिपञ्चकेऽपि भगवतामर्हदादीनामिव तेषामप्यन्यूनाति रिक्ता परमेष्ठिता नीयत इति । अत्रावधेयमिदं यदुत-सर्वेऽपि जीवा अनादितः कालात् भीषणतमे संसारार्णवे औदारिकादीनां पुद्गलानामनन्तान्, परावर्तान् भ्राम्यन्ति, अरघट्टघटीन्यायेन च मिथ्यात्वाऽऽदिकानपायाननुभवन्ति, तत्बलेनैव च ज्ञानावरणीयादीन् बघ्नन्ति कौघान् , आहृतस्याहारस्यानाभोगकरणेनैव जीवा यथा रसाऽसृगादितया विभागं कुर्वन्ति तबलेनैव पुनराहारयन्ति च, तद्वदेव जीवा अप्यनादितोऽनाभोगेन करणवीर्येण कर्मोघमादाय सप्ताऽष्टधाविभागेन परिणमय्य पुनस्तदुदयबलेनैव च नवीनान् कर्मी घानात्मसात्कुर्वन्ति, तथा च बीजाङ्कुरन्यायेन परिभ्राम्यन्ति संसारम् । सति चैतस्मिन् व्यतिकरे कश्चिदेवासुमांस्तथाभव्यत्वपरिपाकेनाऽन्त्यावर्तमागतः संसारपरिवर्तनप्रतिकूलमभिप्राय शमात्मकं अनुभवन्नान्दोलनारहितमानन्दमनुभवति, स हि महात्मा निजाशयं प्रशान्तवाहिनमनाभोगेनापि विधत्ते, न तस्य क्रोधाद्याध्मातता, किन्तु स्वभावेनैव शमदशायामेवानन्दयति ।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193