________________
(५१) प्राप्तिनं चेतोमात्रवृत्त्या किन्तु चारित्रानुष्ठानेनैव ।
यद्यपि ज्ञानादिवच्चारित्रमप्यात्मगुण एव, अत एव च कर्मस्वष्टसु तस्य चारित्रगुणस्य मोहक दर्शनमोहसहचरं कर्माऽभ्युपगम्यते, अभ्युपगम्यते च सयोग्यादीनामपि यथाख्यातनामकं चारित्रमिति, सत्येवं चारित्रस्याऽऽमगुणत्वेऽपि तस्याऽऽविर्भावो रक्षा, वृद्धिः, पराकष्ठााधिगतिश्चेत्येतत् सर्वं ग्रहणाऽऽसेवनाख्यद्विविधशिक्षाया अधीनमेव ।
शिक्षाद्वये चाधिगत एव चारित्राऽऽविर्भावाद्या भवन्ति, तत एव च सकछेन्द्रियाणामपि शिक्षादेरयोग्यानां न चारित्रसत्तादि, शिक्षाद्वयं च प्रागुक्तं नाऽतीतेभ्योऽर्हद्भ्यः , तत्सत्त्वकालेऽपि नैते सर्वतीर्थयोग्यक्षेत्रेषु यावज्जोवं सर्वदा विहारिणः । न चाऽशरीराः सच्चिदानन्दपूर्णा अपि सिद्धा भगवन्तस्तद्वयं विधातुमीशाः, सर्वत्र क्षेत्रे काले च तच्छिक्षाद्वयस्य प्रचारमनगाराः साधव एव निर्ग्रन्थाः कुर्युरिति ।
वस्तुतस्तेषामापत्त्राणाऽऽदिधर्मयुक्तत्वात् शरणार्हतामभिमन्यमान आराधक आह-तहा पसंतगंभोरासयत्ति ।
तथा शब्देन प्रकार-सादृश्यवाचिना पूर्वोक्तशरणद्वयकारस्य तुल्यतां दर्शयन्निदमाह-यदुत
'एते भगवन्तोऽनगाराः, नाऽहंदादिवद्वीतरागसर्वज्ञतापदाः। यथा अर्हन्त.तीर्थस्थापनेन मोक्षमार्गस्य प्रवर्तकत्वात् कृतकृत्या असाधारणोपकारिणश्च, सिद्धाश्च भगवन्तः सर्वदा साद्यनन्तभङ्गेन सच्चिदानन्दपरिपूर्णतया सम्पूर्णकृतकृत्याः परमपदाऽऽराधकानां च भव्यानां परमालम्बनभूतास्तथा नैते सम्पूर्णकृतकृत्यतां याताः, तथापि भगवदर्हदादीनामिव मोक्षमार्गस्य वाहकतया तदनन्यपरमार्थतया प्रवृत्तत्वाच्च भगवदहदादिवदेवाऽन्यूनाऽतिरेकशरणाऽऽश्रयभूता इति ।
अत एव परममेष्ठिपञ्चकेऽपि भगवतामर्हदादीनामिव तेषामप्यन्यूनाति रिक्ता परमेष्ठिता नीयत इति ।
अत्रावधेयमिदं यदुत-सर्वेऽपि जीवा अनादितः कालात् भीषणतमे संसारार्णवे औदारिकादीनां पुद्गलानामनन्तान्, परावर्तान् भ्राम्यन्ति, अरघट्टघटीन्यायेन च मिथ्यात्वाऽऽदिकानपायाननुभवन्ति, तत्बलेनैव च ज्ञानावरणीयादीन् बघ्नन्ति कौघान् , आहृतस्याहारस्यानाभोगकरणेनैव जीवा यथा रसाऽसृगादितया विभागं कुर्वन्ति तबलेनैव पुनराहारयन्ति च, तद्वदेव जीवा अप्यनादितोऽनाभोगेन करणवीर्येण कर्मोघमादाय सप्ताऽष्टधाविभागेन परिणमय्य पुनस्तदुदयबलेनैव च नवीनान् कर्मी घानात्मसात्कुर्वन्ति, तथा च बीजाङ्कुरन्यायेन परिभ्राम्यन्ति संसारम् ।
सति चैतस्मिन् व्यतिकरे कश्चिदेवासुमांस्तथाभव्यत्वपरिपाकेनाऽन्त्यावर्तमागतः संसारपरिवर्तनप्रतिकूलमभिप्राय शमात्मकं अनुभवन्नान्दोलनारहितमानन्दमनुभवति, स हि महात्मा निजाशयं प्रशान्तवाहिनमनाभोगेनापि विधत्ते, न तस्य क्रोधाद्याध्मातता, किन्तु स्वभावेनैव शमदशायामेवानन्दयति ।