________________
(५२) एष एव च सदन्धमार्गगमनन्यायेन मार्गगमोऽसुमत आदितो भवति, अनागताश्चनं मार्ग लोकपङ्क्तये भवरतये च परःसहस्राः शरदस्तपस्यन्तोऽपि दुःखानामुरो ददाना अपि नाऽगता मार्गम् ।
अनागताश्चैन ये शमादोन् धारयन्ति, ते तु वातजशोफपुष्टिधारिणः पुष्टा एव परिणामरमणीयलाभशून्या एव ।
__ अधिकारी चाहत आज्ञाया अत्रैवागतोऽसुमान् भवति । एष एव च धर्म-मार्गयोर्भेदः मार्गों हि चरमावर्ताऽऽरम्भाल्लभ्यो, धर्मस्त्वपापुद्गलावादिति ।
तथाविधदशाप्राप्तानामेवाऽनगाराणां भगवतां शरण्यत्वमर्हमिति ज्ञापनायादौ 'प्रशान्ते' ति | आगताश्च प्रशान्तवाहितां जीवास्त्यक्त्वा भवाभिनन्दितां मोक्षमेव गम्भीराशयतयाऽभिप्रेयन्ते, न च स्वप्नेऽ येते मुक्त्वाऽपवर्ग अन्यं सम्यक्त्वलक्षणेन संवेगेनाऽङ्कितत्वादभिलपन्ति ।
किञ्च-विनाऽऽशयस्य गाम्भीर्यमनादिकालीनाया मोहवासनाया मुक्तिः, सर्वकालसिञ्चिताया इन्द्रियार्थप्रसक्तेः पराकरणं, बाह्यार्थसाधनसावधानमात्राऽऽदिकुटुम्बजनस्य निर्मुक्तिरंशतोऽप्यननुभूतस्य मनसोऽप्यतिक्रान्तविषयस्य मोक्षस्य पुरस्कारेण सर्वप्रयत्नेनोद्यमनं, विविधभावनाऽङ्कितदुर्धरमहाव्रतधुराधरणं, जीवितान्तकराणामपि परीषहोपसर्गाणामापाते निरवद्यसंयमसाधनपुरस्सरमात्मनिःश्रेयससाधननिष्णत्वं न कदाचनापि कस्यापि शक्यतापदमापनीपद्येत ।
अतिपरिचितानामनादिसम्बद्धानामनुपदमनुभवपदवीमागच्छतां पुद्गलसमूहानां परमार्थपरमरिपुताऽध्यवसानेनाऽऽत्मस्वभावभूतसम्यग्दर्शनादिरत्नत्रयीद्वाराऽत्राप्य शाश्वताऽऽ:मीयाऽऽनन्दमयाऽपवर्गप्राप्तिप्रवणता-प्रव्रजनमति–प्रशान्तगम्भीराऽऽशयकार्यमनन्यसाधारणमवसेयं प्रशान्तगम्भीराशया अपि गृहिलिङ्गाऽऽदिसिद्धिश्रवणादप्रतिज्ञातसावद्ययोगा अपि स्युः ।
अपि च भगवतोऽर्हतः शासनं यद्यपि गुणानुरागमूलं, प्रधानश्च गुणानामेवानुरागस्तत्र परं व्यवहारपथः सलिङ्गाः एव गुणा, न निर्लिङ्गाः । अत एव चोत्पन्नकेवलस्यापि भगवतो भरतस्य न शकेन्द्रेण केवलमहिम्ना समागतेनापि वन्दनं कृतं, किन्तु विज्ञप्तिरेवं कृता यदुत प्रव्रज्यां गृह्णीध्वं, येन करोमि वन्दनमिति ।
प्रस्तुते शरणाधिकारेऽपि न प्रशान्तगम्भीराशया अपि अप्रतिज्ञातसावद्या योग्याः शरणे इत्याह'सावद्ययोगविरता' इति !
___ संसारिणो हि जीवाः समस्ता अपि सयोगा एव, केवलमलेश्यावस्थामुपगता एव मुक्तिसौधसोपानस्था अयोगिनः । योगश्च यस्य स सर्वोऽपि प्राणिवर्गों यथायथमवद्यबन्धनबद्धव्यापारः । .. अत एव मिथ्यादर्शनादनन्तरं जैनशासने वन्धधामाऽभिमतमव्रतमिति ।
. जैने हि दर्शने पापादविरमणे पापक्रियाया अकरणेऽपि सुप्त-मूर्छितक्रियचौराऽभिमाराऽऽदिवत्