________________
(५३) पापग्रहणपरायणः, अत एंव चैकेन्द्रियादीनामसामर्थ्यमतामप्यनादिकः संसारः संङ्गच्छते । संगच्छते च तथाविधप्रवृत्तियुतानामपि महात्मनां विरमणभावादेव निष्पापत्वम् ।
यद्यपि त्याज्या एव योगाः समस्ता अपि, न च तदन्तराऽपवर्गावाप्तिः, परं न निस्साधनो मोक्ष इति तत्साधनाय निरवद्ययोगानामासेवनमावश्यकमिति सामायिकचारित्रभेदरूपमेव सावद्ययोगविरमणं साधुपदाभिलाषुकैरधिक्रियते ।।
अत एवाऽत्र साधुशरणाऽधिकारे उक्तं कीदृशाः साधवः शरणमिति शङ्कानिरासपरं पदं 'सावद्ययोगविरता' इति ज्ञात्वा श्रद्धायाऽभ्युपेत्याऽकरणं हि विरमणम् , तेन कायबुद्धिपूर्वकसंसर्गवतामेव सावद्ययोगविरमणं, नाऽन्येषामितिनिरस्तम् ।
देश-सर्वविरतिविभागस्य यतो नाऽवकाशोऽत्र,स्पष्टतयैव साधूनां भगवतामेव शरण्यत्वस्वीकारोऽत्र, यतस्ततो नाऽत्र सर्वशब्देन सावधयोगस्य विशिष्टता कृता, साधूनां भगवतां सर्वेषामेव सावधयोगानां विरमणस्य यावज्जीवमावश्यकत्वादिति ।
सम्पादितक्षयोपशमाद्यवस्थातो मोहनीयादात्मनां दर्शन-चरणयुगलस्य सत्यां प्राप्तौ अवश्यं निरवद्ययोगानामासेवनं स्यात् । अत एव च कालाऽनध्यायादावपि प्रायश्चित्तम् । मोक्षमार्गप्रयाणं च पुरतो ज्ञानाद्याचारपञ्चकस्यासेवनत एव, यथा यथा चारित्रिणामाचारपञ्चकस्य साधने वीर्योत्साहस्य वृद्धिस्तथा तेथा तेषां मोक्षप्राप्तेरासन्नतमत्वादि भवतीत्यावश्यकं मुमुक्षणां ज्ञानाद्याचारपञ्चकस्याराधनम् , तच्च तदीयज्ञानपूर्वमेवेत्याह-'पञ्चविधाचारज्ञायका' इति ।।
_ पञ्चविधश्चाचारो ज्ञानाऽऽदिविषयभेदात् , द्वादशाङ्गस्य प्रणयनमेव मोक्षार्थिजनासेवनीयस्य शासनस्य मूलं, तत्प्रवृत्तरेव तीर्थस्य प्रवृत्तिः, श्रुतपथप्रकाशननाशेनैव तीर्थस्याप्यवसानमिति । 'गीयस्थो य विहारो'त्ति. 'सज्झायसमं तवो कम्मं णे' त्यादि च वचनं वीतरागशासनगतमनुस्मरतामादौ ज्ञानाचारस्याष्टविधस्य समाचरणं, तदर्थमेव च तज्ज्ञानस्यावश्यकमिति ज्ञानाचार आदौ ।
कालाऽध्ययनाऽऽदिज्ञानाऽऽचाराऽऽराधनालब्धाऽऽचाराङ्गदिज्ञाना हि मुनयो निश्शंकितादिगुणैदर्शनाचारैः स्वयं युक्ताः स्युः परानपि तत्र योजयितारश्च, लब्धस्य व्यवहाररूपस्य वा सम्यक्त्वस्य निर्देशादिभिः सदादिभिश्च द्वारैर्जीवादीनां तत्त्वानामधिगमादाचारितज्ञानाचारलब्धसिद्धान्तज्ञानास्तस्य निश्चयरूपतां भावरूपतां वाऽऽनयेयुः। .
किञ्च-यथा यथाऽतिशयशमरससागरं सिद्धान्तसागरमेवगाहन्ते मुनयस्तथा तथा सविशेषरूपेण प्रभावनान्तान् दर्शनाचारानाऽऽचरेयुः। वादि-नैमित्तिकादयो हि प्रभावकाः शासनस्यावगाढाऽऽगमसमुद्रा एवेति निष्पन्नानां ज्ञानाचारे सुकराऽऽवश्यकी च दर्शनाचारनिष्पत्तिः । . . .