________________
. लब्धज्ञान-दर्शनानामपि चेन्न चारित्राऽऽचरणचङ्गिमाऽवश्यं स विराधको देशेन, भगवत्यादौ तथा भणनात् । तस्मात् सर्वाऽऽराधनार्थिभिर्ज्ञान-दर्शनधरैरपि चारित्रायोद्यन्तव्यम् ।
किञ्च-चारित्रयुतयोः सम्यग्दर्शनज्ञानयोर्मोक्षमार्गत्वं नान्यथा, 'एकतराभावेऽप्यसाधनानी'त्यादिभाष्यकाराद्युक्तेः, तथाऽऽवश्यकत्वं चारित्राचारस्य ।
किञ्च-मिथ्यादृशां सत्यपि शास्त्रादिबोधे यदज्ञानित्वमुच्यते, तज्ज्ञानफलरूपस्य चारित्रस्याऽभावा- . देव, तत्त्वदृष्टया च 'जं मोणंति पासह तं सम्मति पासहे ' त्यार्षवचनात् ।
परमसाफल्यं हि चारित्राचरणयुक्तयोरेव सम्यग्दर्शन-ज्ञानयोरित्यप्यावश्यकताऽन्यूना चारित्राचारस्य ।
अवस्थिताश्च सुविहिताश्चारित्रे संवरसाधनलब्धसामर्थ्याः 'संवरफलं तपोवल 'मितिवचनात् 'संजमेणं तवसा अप्पाणं भावेमाणे त्यादिवचनात् 'तवसा धुणइ कम्मरयं अबोहिकलुसं कड'मित्यादिवचनाच्च द्वादशविधेऽप्यनगाराणां कर्त्तव्यतपोपदिष्टे निर्जराहेतुकेऽनशनादितपसि रता अवश्य स्युरिति, तदनन्तरं तपआचाराणामुपन्यासः ।
यद्यपि सर्वेऽपि मुमुक्षवो मोक्षसाधनबद्धकक्षाका ज्ञानाचारादिषूद्यच्छन्ति, परं न सर्वे समानसंहननाः, न चैकसंहनना अपि समानसामर्थ्याः, परं न सर्वेषां तेषां महानुभावानां महर्षीणामस्त्याराधकत्वं, हेतुस्तु तत्राऽऽत्भवीर्यस्याऽनिगृहनेनोद्यमनमेव । तथा च सर्वेऽपि सुविहिता आराधका मोक्षमार्गस्यात्मवीर्यस्य मनोवाकायभेदस्य अनिगृहनेन पराक्रमणादेव । उच्यते च 'जुजइ य जहाथाम' मिति ।
अत एव क्वचिद् वीर्याचारस्य स्वस्थानाऽपेक्षया मनआदिभेदत्रयस्य ग्रहणेऽपि कचिद्विषयस्य प्राधान्यात् ज्ञान-दर्शन-चारित्रतासां भेदान् गृहीत्वा पड्विंशद्विधो वीर्याचार इति कथ्यते ।
तदेवंविधानां पञ्चानामाचाराणां ज्ञायका एवाऽऽराधका मोक्षस्य, त एव शरण्या इत्युक्तं'पञ्चविधाचारज्ञायकाः' इति । ___एवं मोचयित्वात्मानं भवराक्षसात् सिद्धिसाधनं विधाय स्वरूपावस्थां साधयताऽऽत्मना चतुर्णा शरण्यानां शरणमूरीकर्तुमुद्यतेन सद्भूतगुणबहुमानिनां साधून शरणं कुर्वता साधुगुणानां विहितमनुस्मरणम् । यथा च सुविहितात्मानः साधवः प्रशान्तगम्भीराशयादिभिः स्वरूपप्रख्यापकगुणैरो विधातुं शरणं तथा परोपकारनिरतत्वगुणेन सविशेषं ते तथा ।
किञ्च-विपश्चितां गुणगृह्यत्वे समानेऽपि परोपकारपरायणतागुणो विशेपेण स्वीकार्यताहेतुरित्युक्तं'परोपकारनिरताः' इति । विदिततममेतद्विदुषां-यद् सिद्धिसावधानाः सुविहिताः ग्रहणाऽऽसेवनाशिक्षायुग्ममनधिगम्य नाऽलं सिद्धिं राधयितुं, शिक्षाद्वयं च स्थविराऽधनगारसन्निधिसेवाप्राप्यमेव, सुविहिताश्चाऽनवरतं शैक्षादिभ्यो महता प्रयत्नेनापि ग्रहणाऽऽसेवनाशिक्षाद्वयशिक्षणपटुतामेव बिभ्रते।