________________
ततः प्राक् तावत् सर्वेऽपि सुविहिताः साधवो ग्रहणाऽऽसेवनाशिक्षादान-परोपकारनिरताः, अत एजोच्यते श्रुतग्रहणस्य फलं-'ठिओ य ठावइस्सामि 'त्यादि ।
। किञ्च-सुविहिताः साधवो यत् सम्भोगव्यवहारेण भिक्षा-भोजनादि कुर्वते, तत् बाल-ग्लानशैक्ष-वृद्ध-तपख्याऽऽचार्यो-पाध्यायादीनामर्थायैव । अत एवोच्यते मण्डल्यनुपजीविनामपि साधूनां भक्षणविधौ-साहवो तो चियत्तेणं णिमंतिज जयं जई 'त्यादि ।
किञ्च-सोपाचारीष्वपि दशस्विच्छाकारादिरूपासु निमन्त्रणा छन्दना चेति सामाचारीद्वयं साधूनां संविभागकरणेत परोपकारकरणार्थमेव ।
अन्यच चक्रवालसामाचारीरूपमिदमपि युग्मं, तेन सर्वदा सर्वावसरेषु तद्विधानमावश्यकं दर्शितं, परं चाऽसंविभागकारिणां साधूनां सुखशय्याया अभावमुक्त्वा दुःखशय्यावत्वं ज्ञापयित्वा विरोधककोटौ प्रवेशं निष्टङ्कयन्ति निष्णा इति ।
किश्च-गच्छस्य साध्वीवर्गस्य सारणायाः कर्तुयर्गेयस्याभावे आदातुकामानामप्यभ्युद्यतविहार निषिद्धं यत् तदादानं तत् परोपकारनिरतत्वगुणवत्त्वादेव साधूनां महात्मनाम् ।
अन्यच्च-स्वर्गादिसाधनपटिष्ठानामपि सुविहितानां मुनीनां निर्यामका भवन्त्यष्टचत्वारिंशत्सङ्खलाका यत् तदपि परोपकारनिरतत्वादेव, स्थविरकल्पस्य परोपकारप्रवणत्वेन ह्यावश्यकता, अत एव नग्नाटानामिव ग्लानमुन्यादीनां गृहस्थकरणिसमाश्रयिणां स्थविरकल्पिकेषु अपि बाल-ग्लान-वृद्धाऽऽचार्याऽऽदिवैयावृत्त्यसंविभागाऽर्थमेव च मण्डल्याश्रयणं, मण्डल्युपजीवका हि साधवः गोचराऽग्रमवतीर्णाः सकलश्रमणसङ्घयोग्यमेवाददते, पात्रादिकस्य सनिर्योगस्य धरणमपि नियतं स्थविराणां साधुगच्छोपग्रहार्थमेवेति सत्यमुक्तं-'परोपकारनिरताः' इति ।
अत एव च ग्लान-बालाऽऽदिवैयावृत्त्यायकरणे प्रायश्चित्तमनगाराणामवसीदतामनगाराणामुपे- ' क्षणेऽपीति ।
यथास्थितपरोपकारो हि तैरेव कर्तुं शक्यो, ये स्वयं कामभोगपङ्कावसन्ना न स्युरित्याह'पद्मादिनिदर्शनाः' इति ।
यद्वा निरुपमेयगुणा अयहदाया महागोपाऽऽदिदृष्टान्तवर्णनाया एव विदुषां । ततः साधुमहात्मनामपि दृष्टान्तवर्णनीयताया दर्शनायाऽऽह-' पद्मादिनिदर्शना' इति ।
तत्र पद्मनिदर्शनं-'जहा पोम्मं जले जाय 'मित्यादिनोत्तराध्ययनसूत्रसूत्रितं यथार्हमाहनतादर्शकं, यद्वा पद्मशब्देन पद्मपत्रं ग्राह्यं, तथा च पुष्करपद्मपत्रं यथा निर्लेपं, तथा निर्लेपगुणं धारयतो दृष्ट्वा लोकास्तान् पुष्करपद्मपत्रतया ख्यान्ति । पुष्करपद्मपत्रेण लोकेषु ते निदर्श्यन्ते इति श्रीपर्युषणाकल्पोक्तेः 'कंसे संखे' इत्याद्यकविंशतिपदाक्तानि निदर्शनानि ज्ञेयानि, आदिशब्दस्य प्रकारार्थत्वात् ।