________________
(६६)
यद्वाऽऽदिना शारदसलिलाऽऽदिनीह निदर्शनानि विवक्षितानि । ततस्तन्मध्यगतपुष्करपत्रादीनि ज्ञेयान्यत्र निदर्शनानि, विशेषप्रसिद्धेः पुष्करपत्राऽदिनिदर्शनानामुपादानमिति ।
यद्वा प्रशान्तगम्भीराशयेत्यनेन पदेन गभीरहृदो यो वर्णितः श्रीआचाराङ्गे, तेन समानतामुक्त्वा स्वरूपमुक्तं चारित्रप्राणस्य । अत्र तु पद्मादिनिदर्शना इतिपदेन मोक्षमार्गगामिषु तेषां महात्मनां तेनैव हृदसमत्वेनानेकप्रसिद्धेः ख्यातिः ख्यापितेति ।
सर्वेषामपि सञ्ज्ञिनां प्राग्भवीयप्रचुरपुण्यप्राग्भारलभ्यं मनः, नहि कदापि तथाविधपुण्योदयेन विना सञ्ज्ञित्वस्याप्तिः, परं तत् सञ्ज्ञित्वहेतुकं मनः पैशाचिकाऽऽख्यानगतपिशाचतुल्यं प्रोक्तानामिष्टार्थानां सम्पादकमन्यथोत्पातशतसमुद्यतं च । यतो मन एव सुष्टु प्रयुक्तं साधयति सिद्धि, मन्नं च रौद्रे देव माघवतीमहीं नयति नेतारमिति ।
अत एव च ‘पैशाचिकमाश्यान' मित्यादिगतं 'संयमयोगैरात्मा निरंतर व्यापृतः कार्य ' इति श्रीउमास्वातिभिः प्रशमरतावुपदिष्टं, परमिच्छाकाराऽऽदिप्रतिलेखनादिकानां संयमयोगानां नियतकालकर्तयत्वात् तपस्विनां महात्मनां शेत्रः कालो भूयान् उद्धरतीति तद्गत कर्तव्यतामाह4 'ध्यानाध्ययनसङ्गता ' इति ।
यद्वा प्रशान्तगम्भीराशयादिभिर्विशेषणैः साधुमहात्मनां संवरसमृद्धेः साधनेऽपि नैतावती मोक्षमार्गप्रयाणवृद्धिः, तावत्या एव गुणश्रेणेरवस्थानात्, 'गुणसेढी तत्तिया ठाई 'तिवचनात्, तस्मात् निर्जरासामर्थ्येन मोक्षमार्गप्रयाणस्य वृद्धेर्ज्ञापनार्थमाह - ' ध्यानाऽध्ययन,' इति ।
यद्यपि मुमुक्षवोऽनशनादिके द्वादशविधेऽपि सुविहितानामादरणीयतयाऽभिहिते निर्जराभेदे यथासामर्थ्यं रक्ता एव, अन्यथा वीर्याचारहानिदोषापत्तेः परं स्वाध्याये ध्याने च कालक्रमेण प्राप्ते विशेषेण रताः साधवः । 'पढमे पोरिसी सज्झायं, बीए झाणं झियायई 'ति प्रतिदिनसामाचारीप्रतिपादक श्रीमदुत्तराध्ययनवचनात् ।
अत्र यद्यपि ध्यानमध्ययनस्य कार्यरूपत्वात् पश्चाद्भावि, तथापि मोक्षमार्गप्रयाणे ध्यानस्याभ्यहितत्वात् प्राग्निपातः, अल्पस्वरत्वमस्त्येव ।
ध्याने चात्र 'परे मोक्ष हेतू ' इतिवचनाद् धर्मं - शुक्लाख्ये एव ग्राह्ये, तत्रापि शुक्लध्यानस्य श्रेणिविशेषे सयोगिकेवलिनि च भावात् सर्वश्रमणव्यापकताऽभावात् धर्म्यमेवात्र ध्यानं ग्राह्यम् ।
किंञ्च - धर्म्यध्यानस्य किञ्चित् किञ्चिद्ध्यानान्तरकालव्यवधानेनाजीवनमनगाराणां सम्भवात्तद् ग्राह्यं । धर्मध्यानं चाऽऽज्ञाविचयाऽऽदिभेदं सततं ध्येयं सुविहितैरिति तत्सङ्गता एव साधवः शरण्या भवन्तीति ते शरणमित्युक्त्वा कुरूटो- त्करूटाssमानां शरणानर्हत्वं प्रतिपादयति ।