________________
(५७.) ध्यानं स्वभ्यस्तागमो गीतार्थ एव विधातुमलं साधुः न कोकणप्रायोऽपत्यकृषिचिन्तक इवेत्याह-- . . गीतार्थत्वाय अध्ययनेति ।
ननु ‘चाउकालं सज्झायस्स अकरणयाए 'तिवचनाद् दिवस-निशयोराद्यान्त्यप्रहरेष्वेवाध्ययनस्य सङ्गतिर्न सर्वकालमिति चेत् ! सत्यं, स नियम आबालवृद्धानां सर्वेषां गच्छवासिनां विशेषतो भक्तिमतामनगाराणां, सामान्येन तु 'काले ण कओ सज्झाओ 'त्ति 'सज्झाए ण सज्झाइयं 'ति च वचनात् सर्वकालमेवाऽकालाऽस्वाध्यायवर्जमध्ययनकाल इति योग्यमेवोच्यते-'शरण्याः साधवः अध्ययनसङ्गता' इति ।
यद्यपि परस्पराऽविनाभावि द्वयमेतत् , परं परमं शुभध्यानमेव निर्जराहेतुः। निकाचितान्यपि कर्माणि ध्यानप्रभावादेवापनेतुं शक्यन्ते विनैव भोगं, तदन्तरेण तु तल्लवेऽपि कृताऽतिनिष्ठुरकर्मगां दृढप्रहारिप्रभृतीनां मोक्षस्यासम्भवः, तथाविधध्यानहेतुनैव सततमध्ययनमग्नत्वभावात् साधूनां योग्यमुक्तं-'ध्यानाऽध्ययनसङ्गता' इति ।
एवंविधा भपि साधवः ध्यानाऽध्ययनलीना अपि प्रतिक्षणमपूर्वाऽपूर्वनिर्जरावृद्धिगुणप्रकर्षलाभवन्त एव मोक्षस्य साधनाय, साधने च तस्य साहाय्याय प्रभवेयुरित्याह- 'विशुध्यमानभावा' इति । विशुध्यमानभावत्वं च जातिस्मरण-कुलसंस्कारायभावेऽप्यवाप्ताष्टवयस्कचारित्रस्य मासाऽऽदिपर्यायेण व्यन्तरादिसुखासिकावृद्ध्या यावत् संवत्सरेण सर्वशुक्लाभिजात्यत्वेन, परस्य त्वन्तर्मुहूर्तेनाप्यवाप्य केवलस्य यथा स्यात्तथावसेयम् । . . .. :. . . . . . .
__ अत एवोच्यते - 'जह जह सुयमवगाहइ अइसयरसपसरसंजुयमपुव्य 'मित्यादि । एवं ." निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मक "मित्यादि यावत् नित्यं निर्वाणसुखमवाप्नोती "ति तत्त्वार्थभाष्ये, “नित्योद्विग्नस्यैव "मित्यादि च प्रशमरतो, साधूनां साघुत्वप्राप्त्यादिफलप्रकर्षः। सर्वश्चैष फलप्रकर्षो विशुध्यमानभावस्यैव साधोरिति सुष्ठुक्तं "विशुध्यमानभावाः साधवः शरण "मिति । - एतादृशानां प्रशान्तगम्भीराशयादिगुणानां साधुष्वेव भावात् , साधूनामपि च यथार्थतया प्रशान्तगम्भीराशयत्वादिनियमात् यत् साधव इति प्रोच्यते, तत् द्रव्यवेषयुक्तानामेव, तादृशानां मोक्षसाधनाय प्रशान्तगम्भीराशयादिगुणधारिणां शरण्यताज्ञापनाय । ततश्च भावलिशानां निम्रन्थानामत्तमस्वेऽपि शरणकरणे साधवः, साधवस्तु द्रव्यभावोभयलिङ्गयुक्ता एव निर्ग्रन्था इति । .. . एवं स्वयं केवलज्ञानेन विज्ञाय पूर्वभवगताऽप्रतिपातिमत्यादित्रिज्ञानयुक्तेन. सम्यक्त्वेन स्वयम्बुद्धतयाऽऽचरितस्य चारित्रधर्मस्य फलस्वरूपतया तत्पूर्वभवोपात्तजिननामकर्मणोऽभिप्रेतफलदातृतयोदयात समवसरणं सुरसम्पादितमध्यास्य द्वादशाङ्गो धर्मः प्रतिपादित इति सफलसमाचीर्णसद्धर्मप्रतिपादक