________________
तयाऽहंतो भगवतः, तत्सद्धर्मसमाचरणसाधिताऽविनाश्यात्मस्वरूपाऽवाप्तसिद्धिसौधान् भगवतः सिद्धान् , तस्यैव सद्धर्मस्य समाचरणचतुरान् तत्समाचरणचणनररत्नपरमसयमधर्मसाधनसहायकरणतत्परांश्च सुविहितान् भगवतः शरणम् स्वीकरोति मुमुक्षुः ।
____एतावता ग्रन्थेन शरण्यान् शरणतया स्वीकृत्य परमपुरुषाणामुपासना विहिता, परं जैने धर्मे यथैवोत्तमपुरुषाणामात्मश्रेयस्करमाराधनं तथैव परममार्गस्यापि केवलिप्रज्ञप्तस्याराधनमावश्यकतममेव । धर्मिष्ठपुरुषसमारीधनं तु गुरुत्वप्राप्तेर गेवाभीष्टं, तत्प्राप्तौ तु तथाविधपुरुषाणामाराधनाय प्रेरणमपि, 'केवलिनो गौतम ! माऽऽशातये 'ति श्रीवीरवचसाऽऽपत्तिकरं, परं केवलिप्रज्ञप्तस्य धर्मस्य समाराधन यावदयोग्यन्त्यसमयसर्वशरीरविप्रहाणमावश्यकमिति तस्य केवलिप्रज्ञप्तस्य धर्मस्य परमशरण्यत्वात् यावत्सिद्धिसाधनं चालम्बनीयत्वात्तत् शरणीकर्तुमाह-तहा केवलिपण्णत्तो धम्मो जावजीवं मे भगवं सरण 'मिति ।
अत्रावधेयमिदं यदुत-सर्वेऽपि तीथिका अविप्रतिपन्ना एतस्मिन् वस्तुनि, यदुत-" सर्वैरपि स्वीकृत आस्तिकैरात्माख्यः पदार्थः रूप-रस-गन्ध-स्पर्शाश्चक्षुरादीन्द्रियगम्या विषयास्तै रहित एव, तथा च नाऽसौ अतीन्द्रियज्ञानिनं विना ज्ञातुं शक्योऽन्यः ।"
मंतीन्द्रियज्ञानी च वीतरागपरमात्मानमन्तरेण न कोऽपि जगति भवितुमर्हतीति सर्वतीर्थीयेषु रागद्वेष-मोहर्ललनास्त्री-मालासंसर्ग-हतवीतरागत्वेषु भगवानहन्नवाऽष्टादंशदोपरहितत्वाद्वीतरागः सर्वज्ञः, स एव चात्माद्यतीन्द्रियपदार्थानां साक्षात्परिच्छेदविधायी, अन्येषु प्रवृत्तास्ते आत्माद्यर्थवाचकतयाऽऽरमादयः शब्दास्ते भगवद्वीतरागार्हद्वचनानुकारेणैव ।
अत एवोच्यते 'सबप्पवायमूलं दुवालसंग 'मित्यादि । 'उदधाविव सर्वसिंधव' इत्यादि तु तानुसारिवावदूकपर्षदुद्गीर्णमतप्रवाहापेक्षम् ।
भगवन्तो जिनेश्वराश्चावगम्यं केवलेंनाऽखिलान् प्रज्ञापनीयेतरान् भावान् गणमुन्नांमकर्मोदयधरणंधौरान् गणधरानुद्दिश्य निखिलान् प्रज्ञापनीयार्थान् साक्षात् सूचकतया वा भाषन्ते ।
तत्र प्रथमं तावत् लोकादीनां शाश्वतत्वज्ञापनेनाऽकृत्रिमत्वादिज्ञापनायाऽस्तित्वादि समुपदिशन्ति, तदनु नैर्ग्रन्थं शासनं, तन्महिमानं सुरगत्यादिपूत्पत्तिकारणानि, नारकादि-सिद्धभगवदन्तसर्वार्थस्वरूपं प्रादुर्भावयन्ति । श्रुत्वा चैतां देशनां गणधरा भगवन्तः शासनोत्पत्ति-स्थिति-प्रवृत्ति-प्रवृद्धिप्रायोग्या अध्नन्ति द्वादशाङ्गीमित्यलमतिप्रसक्तेन ।
आल्यान्तश्च भगवन्तो देशनां कर्तव्यतयांऽनगाराउंगारधर्म यथाभद्रकत्वादिकाः सिद्धिसौघाsवस्थानाऽवसांना दशा उद्दिश्य समप्रमपि स्वर्गाऽपवर्गसुकुलोत्पत्यादिकं सर्वमपि फलतयाऽऽख्यान्ति । तत एव गीयते 'धर्मः स्वर्गापवर्गद' इत्यादि ।