________________
एवं च भगवन्तोभ्युदय-निःश्रेयसोभयहेतुतया धर्ममाख्यान्ति, परं तत्राऽभ्युदयहेतुताऽऽनुषङ्गिकीति-धर्मस्य फलरूपापि सा प्राप्या, न साध्या ।
अत एव न क्वचिदप्या धर्मस्याभ्युदयमुद्दिश्य कर्तव्योपदेशः, या तु तत्र निःश्रेयसहेतुता धर्मस्य, सा साध्या प्रयत्नाऽतिशयेनापीति सर्वत्राऽऽर्षागमेषु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यायेवोच्यते । ___यचात्र जिनेश्वरमात्रप्ररूपितस्य धर्मस्य केवलिप्रज्ञप्ततयाऽऽख्यानं शरणीकरणं च तत् न धर्मस्य स्वरूपे भगवतां जिनेश्वराणां जिनत्वद्योतकातिशयानां प्रभावः, किन्तु केवलित्वस्यैवेति द्योतनाय सर्वेषां जिनानां केवलिनां समानधर्मप्ररूपणा पदार्थस्वरूपानुपातित्वात् सर्वेषामपि समानेतिज्ञापनाय च ।
किञ्च मङ्गलव-लोकोत्तमत्वस्वीकाराऽऽदिपूर्वकमेव शरणं स्वीकर्तुं योग्य, परमेतस्याऽऽराधनासूत्रत्वात् फलरूपमेव शरणं स्वीकृतम् । प्रतिक्रमणाऽऽदिषु क्रियासूत्रत्वात् केवलिप्रज्ञतस्य धर्मस्यापरेषां चाहदादीनां स मङ्गलव-लोकोत्तमत्वस्वीकारपूर्वक एव शरणत्वस्वीकार इति ।
किञ्च- जैने हि शासने धर्मिणां धर्माऽऽधारतयैवाराध्यता, नहि कस्याप्याराध्यताऽत्र व्यक्ति-जातिलिङ्गाऽऽत्मना, परं धर्मो न हि मूर्तिमान् , तथा च कथं तस्य पर्युपासनाऽऽदि, ततो धर्मवानेव पर्युपासनायां ग्राह्यः ।
अत एव च परमेष्ठिपञ्चकनमस्कारो महामन्त्रतयाऽऽराध्यते, पूज्यन्ते च तद्गता अर्हदादयः, अत एव च पारमर्षेऽपि-'वंदामि नमसामी'त्यादीनां पदानां निरुपमानो न्यासः, 'पज्जुवासामिति । अस्यैव च 'कल्लाणं मंगलं 'मित्यादिपर्युपास्यपदौपम्येन न्यासः ।
अत्राऽपि च प्रागुपन्यस्तानामर्हदादीनां केवलिप्रज्ञाधर्मवत्ताप्रभावेनैव शरण्यता, तथापि पर्युपास्या मूर्ता इति, तत एव हेतोस्तेषां प्रागुपन्यासः, परं नैतावता धाराधनेन धर्मप्रभावः क्षीणः, किन्तु तद्वत् पूजाद्वारैव धर्मस्य सप्रभावत्वात् पुष्टतामापन्नो धर्मप्रभाव इत्याह-'तथेति । ____ अर्हत्-सिद्ध-साधुवदन्यूनातिरिक्ततयैव धर्ममपि शरण कुर्वे इत्याह, ज्ञापयति च धर्मिणां शरणस्य . स्वीकारादनु धर्मस्य शरणस्वीकारेण यदुत-बहुजनमतो धर्म इतिन्यायेन सर्वेऽप्यास्तिका धर्मस्य बहुमाने रता नाऽपरे ।
___अत एव जैनशासनबहुमानिनामपि अहंदादीनां पञ्चानां परमेष्ठिनामाशातनायां मिथ्यात्वं माम्नायते । गोशाल-जमाल्यादयो हि भगवतः श्रमणान्महावीराद्विप्रतिपन्ना एव मिथ्यात्वं गताः । अधुनातना अपि जैन धर्मं शरणं ब्रुवाणा अपि भगवन्तं तद्वचनाऽन्यथाकरणद्वारा विप्रतिपन्ना एवमेवेति धर्मस्य मूर्तिमत्त्वाभावाद् धर्मिमहत्ताद्वारैव महत्ता धर्मस्येति मनस्वाऽऽधायाह-' सुरासुरनरपूजित' इति ।