________________
(६२) क्रमशः क्षप्यमाणेषु चारित्रं उपशमश्रेणिः क्षपकश्रेणिश्चावश्यं तस्य भवतीति क्रमशः सकलमोहस्य नाशकत्वादपि धर्मबोधेरेव मोहतिमिरांशुमारिता ज्ञेया ।
अत एव रागद्वेषविषपरममन्त्र इत्यप्रेतनं विशेषणम् । तत्रानन्तानुबन्ध्यादिचतुष्कं नवनोकषायसहितं राग-द्वेष-शब्देन ग्राह्यं । तथा न स्थानमारेकाया यदुत-य एव मोहः, स एव रागद्वेषौ यावेव च रागद्वेषौ तावेव मोह इति.कथं मोहस्य रागद्वेषयोश्च पृथा ग्रहणमिति ।
___ अत एव रागस्य सक्लेशजनकता द्वेषस्य शमेन्धनदावानलवाया प्रतिपादिता भगवता श्रीहरिभद्रसूरिणा सा अशुद्धवृत्तकरणहेतुता च मोहस्य सङ्गच्छतेतमाम् । विहायैव विषयतृष्णां गन्यागम्यविभागं विना सर्वत्र वर्तनारूपां लमते भगवत्केवलिप्रज्ञतं वोधिमिति नियमात् ।
ज्ञापितं चैतत् पोडशके श्री हरिभद्रसूरिभिर्यथा तथैव श्रीमद्भिरभयदेवमूरिभिरपि स्वकीये नवतत्त्वप्रकरणभाष्ये स्पष्टितमेव-" तादृश्या विषयतृष्णायाः शमनमेव सम्यक्त्वस्य शमरूपं लक्षणं तच्चाऽऽस्तिक्यादीनां संवेगान्तानां चतॄणां फलरूपमिति ।
___ श्रीहरिभद्राचार्या विंशतिकाप्रकरणे उत्पत्तावास्तिक्यादीनां पश्चानुपूर्वीक्रमस्याभ्युपगत्वात् मतः केवलिप्रज्ञप्तस्य धर्मस्य बोधिरेव सम्यक्त्वाऽपरंपर्यायः, अत एवोच्यते-'तमतिमिरपडलविद्धंसणस्सेति श्रुतस्तवे, 'द्विविधमनेकद्वादशविधं महाविषयममितगमयुक्तं । संसाराऽर्णवपारगमनाय दुःस्वक्षयायाऽल 'मिति तत्त्वार्थभाप्ये द्वादशाऽङ्गतीर्थ देशनाप्रस्तावे न ह्यनन्तरं जायमानं फलमेव फलतयोच्यते, किन्तु अनन्तर-परम्परयोरेकतरेणापि उभयेनाऽपि च । अत एव च प्रयोजनाख्यानुबन्धस्यानन्तर-परम्परप्रयोजनमभिव्याप्याख्यायते फलवत्ता ।
तथा च केवलिप्रज्ञप्तधर्माऽवाप्तेरवाऽऽनन्तर्येण पारम्पर्येण च जायमानानि सकलानि फलानि मोक्षप्राप्तिपर्यवसानानानि ज्ञेयानि । अत्र तु मोहतिमिरांऽशुमालिन्वकथनेन जायमानमनन्तरं फलमेनाम्नातम् ।
किश्च जाते मोहतिमिरस्य ध्वंसे अवश्यमङ्गी रागद्वेषघातनतत्परः स्यात् , । अत एव च संवेगं सम्यक्त्वलक्षणतया वर्णयन्ति विद्वांसः । तथाविधां तस्याऽवाप्तबोधेरवेदयैव दशां सावद्यप्रवृत्याऽऽदिसपापव्यापारभृतानमपि सम्यग्दृशो देशविरतिमतो देशविरतांश्च श्रीसूत्रकृताङ्गे गणधरा धार्मिकपक्षतया निश्चिन्वते, प्राप्तौ च सम्यक्त्वस्य मिथ्यात्वमोहनीयस्यैव भेद उपयुक्ततमस्तथापि तद्भेदात् तद्विभागाच्च प्रागेव चारित्रमोहनीयमुपाऽनन्तानुबन्धिनामुपयमक्षयादीनां स्वीकुर्वत आचार्या आवश्यकताम् । .
अनन्तानुबन्धिशमस्तु प्रागेवापूर्वकरणे । तेन न जातं सम्यक्त्वं तद्व्यञ्जकं, अभिव्यक्तिस्मु तत एवेन्यते, क्रोधकण्डूयाऽपगमेऽपि तव्यपगमादेवाऽपूर्वकरणाजात एव असाधारणः पक्षपातः शमवति भगवति, तन्मात्रप्रतिबद्धता च शमरूपा सम्यक्त्वादनन्तरमेवाभिव्यच्यते । ततश्च यथार्थमुक्तं'मोहतिमिरांशुमाली केवलिप्रज्ञप्तो धर्म' इति ।