________________
(६३) - लल्धसम्यक्त्वा अपगतमोहतिमिरा अपि जना गुणस्थानानां परम्परा साधयित्वैव शक्नुः वन्न्यपवर्ग साधयितुं, नाऽन्यथा, उच्यते च 'परंपरगयाण' मिति । सा परम्पराऽपि केवलिप्रसाद : धर्मात् नान्यतः कुतश्चिदवाप्यते, परम्परायां च तस्यां क्रमशः क्षपणं राग-द्वेषविषस्य जायते, तत एव चाऽऽत्मसु अपूर्वाऽपूर्वगुणप्राप्तिर्जायते, महान् कालश्चास्य, यतः पञ्चम-षष्ठ-सप्तमगुणस्थानकानासक स्थानं देशोनां पूर्वकोटी यावद् भवति ततस्तत्र विघ्ननाशाय पठ्यते-'रागद्वेषविषपुरममन्त्र' इति ।
- अत्रेदमवधेयं यदुत तिमिरं हि द्रष्टुरोधं विधाय दृष्टेरुपद्रोति, विषं तु व्यथामप्यन्तरुत्पादयति, यथास्थितां दृष्टिं च प्रतिबध्नाति, तद्वत् मिथ्यात्वमोहनीयोदयस्य तिमिरोपमत्वात् स सदेवगुरुसंत्तत्वगतां दृष्टिमवरुणद्धि ।
__ अप्रत्याख्यानाऽऽदयस्तु दुःखरूपे दुःखफले दुःखानुबंधे च संसारे सुखाऽऽदिरूपतामाभास्य विषय-कषाय-हिंसा-परिग्रहेषु जीवं तद्रसिकतया प्रवर्तयन्ति, अतो 'विषं विषया' इत्यप्युच्यते, विषयाणां विषत्वं न स्वरूपेण, यतोऽभिसरन्ति हि विषया मतीन्द्रियान् केवलिनोऽपि, तेषां विषत्वं तु राग-द्वेषनिवासत्वेन । अत एवोच्चते-
. . . . . . . .. .. ." अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । .
.. .. राग-द्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥१॥ इति" (योग. प्र. १ श्लो. ३५) - विषयाणां परिहाराय यदुपदिश्यते परमर्षिभिः तत्राऽपि 'सद्देसु जो गिद्धिमुवेइ तिव्व'. मित्यादिना शब्दाऽऽदीनां परिहारमनभिधाय तद्गतयोर्गुद्धि-द्वेषयोर्विषयोरेवोच्यते परिहारः । ततः सुनिश्चितमिदं यदुत-विषयगतयोः राग-द्वेषयोर्विषेणोपमानं यथार्थमेव ।
ननु धर्मस्य भवतु महिमाऽनून एषः, केवलिप्रज्ञतत्वविशेषणेन किमिति चेत् ? सत्यं, वचनं हि श्रूयमाणं प्रागेव तत्तावत् स्वप्रामाण्याय वक्तुः स्वरूपमन्वेषयितुमात्मानं प्रवर्तयति, यतो विरला एवं विश्वे वस्तूनां यथार्थतया स्वरूपस्य वेत्तारः, तत्रापि धर्माऽधर्मों तु नाऽतिन्द्रियवेदिनमन्तरा, वेत्तमळ. म्भूष्णुः कोऽपि, ज्ञातमपि वस्तुस्वरूपं स एव यथावद् विभावयितुमलं स्यात् , यः स्याद् राग-द्वेष रहितः।
अत एवोच्यते 'आप्तवचनमागमः, अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं . चाभिधत्ते स आप्त' इति ।
तथा च प्राक् तावत् श्रुतस्य प्रामाण्यायैव तद्वक्तुः स्वरूपस्यान्वेषणं, वीतरागः केवली च परमात्मा परम आप्त इति, तत्प्ररूपितस्य धर्मस्य धीमान् प्रामाण्यमध्यवस्यति, अव्यवसिते च तस्मिन तस्याऽऽराधनाय प्रवर्तते प्रधीः, प्रवृत्तश्चाऽऽराधनाय तस्य प्रवीस्तदनन्यया भक्त्या वासितो भवति, तशाभूतश्चेष्टानप्यतादिकालतो विषयान् स्पर्शादीन् दुःखरूपान्, दुःखफलान्, दुःस्वानुबयांचा: