Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
यथोक्तयोदाहर्तु,तथाविधस्योपमानादिसाधनस्याऽभावात् नैव शक्नोति स्वजनानामाप्तानामप्यग्रत उदाहतु स्वरूपं नगरस्य, तद्वदत्रापि सर्वद्रव्य-क्षेत्र-काल-भावाऽवभासनपटिष्ठेन केवलाऽऽलोकेनाऽवलोक्यापि सिद्धिपुरं सोपचारं सामस्त्येन नैव शक्नोति विधातुं तत्प्रतिपादनम् , यतो जगति ये ये व्यवहारगता अर्था उपमानपदमानीयोच्यन्ते ते समस्ता अपि अनात्मीया अतथाभूताश्चेति विदन्नपि केवलज्ञानी न स्वरूपं सिद्धेराख्यातुमलम् । __ . लोकेऽप्यभिन्नस्वरूपाया अपि सख्याः पुरोन पतिप्रेमरसाऽऽदीनाख्यातुमपार्यत प्रियया सख्येति सुप्रसिद्धमेव, तद्वदत्राऽशेषानर्थान् विदनपि सामस्त्येन साधनस्य तथाविधस्याऽभावानोपदर्शयितुं शक्त इति पुरस्वरूपाऽकथनवृत्तमधिकृत्यापि सिद्धेः पुरत्वेनाभिसन्धानं समञ्ज नसमेव ।
किञ्च-अन्यत्र पुरादिष्वधिवसन् जीवो यावद्भवमप्यवसन् चिरकालं सामस्त्येन वासान्निवासितयाभिधीयते, इतरे त्वागन्तुतया, तद्वदत्रापि परं साधनन्तं कालं यावद्वासोऽत्र सिद्धानां भगवतामिति यथार्थतयैव सिद्धा भगवन्तः सिद्धपुरनिवासिनः ।
अत एव शास्त्रेऽपि सिद्धिगते मधेयेषु अपुनरावृत्तितयोच्यते, परतीर्थीयैरपि 'न पुनरावृत्तिः न पुनरावृत्ति 'रिति ब्रह्मसूत्राऽऽदिना अपुनरावृत्तिकथनेन सिद्धानां भगवतां साद्यनन्तस्थितिमत्त्वमभ्युपगतमेव ।
यैरेव ज्ञानिभिर्येनैव ज्ञानेन सिद्धानां साधनेनेह पुनरनागमनं दृष्टं, तैरेव ज्ञानिभिस्तेनैव ज्ञानेन जीवानां विशेतषश्च भव्यानां तथाविधराशिप्राचुर्यादव्यवच्छेदोऽपि दृष्ट इति, न जीवानां भव्यानां सिद्धिगमनेनाऽनन्तानामपि व्युच्छेदशङ्काया अवकाशः ।
अवधेयमत्रेदं यद्-अतीत-वर्तमानाऽनागताऽद्धासमयानां या सङ्ख्या आनन्त्याङ्किता, ततोप्यनन्तगुणैरधिका भव्यजीवानां सङ्ख्या, सिद्धिश्च नरलोकस्य पञ्चचत्वारिंशल्लक्षयोजनप्रमाणस्याभ्यन्तरे एव ।
बहिर्नरलोकाजिनादीनां सर्वथाऽभावात् अपि विद्याधराया नन्दीश्वराऽऽदिषु चैत्यवन्दनाऽर्थमागच्छन्त्येव त्वरितं पुनरत्रैव, न च तत्र धर्मदेशनाऽऽदि कुर्वते ।
नरलोकेऽपि भवोदधेस्तारणप्रत्यलस्य तीर्थस्य प्रवृत्तिस्तु पश्चदशसु कर्मभूमिष्वेव, तत्रापि अर्धषड्विंशतावार्यजनपदेष्वेव बाहुल्येन धर्मतीर्थमाप्य सिद्धेरानुकूल्यं, परत्र तु न "धर्म" इति वर्णद्वयं स्वप्नेऽप्यायाति हृदि ।
तेष्वपि च क्षेत्रेषु महत्स्वपि पूर्वाऽपरविदेहेषु स्वल्पक्षेत्रं धर्मतीर्थस्याऽनुकूलताभाक्, भरतैरवतेषु च दशकोटाकोटीसागरप्रमितास्वाप्युत्सर्पिण्य-वसर्पिणीष्वेकामेव सागरकोटी केवला तीर्थकालः, सोऽप्यन्तराऽन्तरैव तत्त्वतो जिनानां पर्यायाऽन्तकृभूमि-युगाऽन्तकृभूमिरूप एव सिद्धेर्योग्यः कालः ।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193