________________
(३७)
निराबाधमेतदेव - यदात्मैव ज्ञानादिस्वभावैः तत्तत्क्षयोपशमाद्यनुसारेण चाडवाप्नोति वोधमिति । ततश्च सिद्धाः भगवन्तः सर्वथा कर्मकलङ्करहिता इति केवलज्ञानदर्शनधरा इति ।
नन्वेतादृशोऽप्येते क्वचिन्नियतदेशस्थिता अनियतदेशस्था वेति ?, नियत एव देशे ते स्थिता इति, आदौ तावत् जीवानां स्वस्वभाव ऊर्ध्वगमनरूप एव यथा धूमाऽऽग्निज्वालाssदीनाम् । अत एव सकर्मणां जीवानां गत्यन्तर-स्थानप्राप्यर्थमानुपूर्वीनाम्न आवश्यकता, गत्यादिनाम्नां चोदयस्थानुकूल - - क्षेत्रप्रापणं चावश्यकं मन्यते, मुक्तिश्च साधनैः सम्यग्दर्शन ज्ञान - चारित्रैरेव जन्यते तानि च साधनानि - नरलोकाद् बहिर्न सम्भवन्ति, जिनेन्द्रोत्पत्त्यादीनां नरलोक एव तद्धेतूनां भावात्, तत्रैव नरोक एव मुक्तेः साघनं, मुक्ताश्च नरलोके सम्यग्दर्शनाऽऽदिभिः साधनैरूर्ध्वमेव स्वभावाद् गच्छन्तः सिद्धिपर्यवसानगतिका एव भवन्ति। अत एव 'लोयग्गमुत्रगयाण' मिति 'तत्थ गंतूण सिज्झई'त्यादि चोच्यते ।
ननु जीवा ऊर्ध्वगमनस्वभावा एव, मुक्ताश्च कर्मप्रेरणारहिताः स्वस्वभावेनैवोर्ध्वं गच्छन्ति चेत् ?,. सिद्धशिलायां लोकाग्रे वा कथमवस्थिता भवेयुः ? किं न परतोऽपि स्वभावात् गच्छेयुरूर्ध्वमिति चेत् ? सत्यं, ? परं जीवानां पुद्गलानां च गतिपरिणतानामपि गतिपरिणामाऽऽपन्नानामपि मत्स्यानां - गत जलमित्र धर्मास्तिकाय एवावष्टम्भकः । स च न लोकाग्रात् परत इति सिद्धानां लोकाय एव स्थानम् । ननु धर्मास्तिकायस्य सत्त्वमेव कथं बोद्धव्यामिति चेत्, सत्यं पारमर्षप्रवचनवचनात् तच्छ्रद्वातुमर्हम् ।
किञ्च-यदि न स्यात्तादृग्दव्यं जीव- पुद्गलानां गतेर्नियामकम्, अलोकस्याऽपरिमितत्वात्, सर्वे जीवाः पुद्गलपरमाणवश्च तथा तथा नियामकाऽभावाद् गच्छेयुर्यथा जीवानामजीवानां दृश्यमाना अनुभूयमाना आवश्यकाश्च संयोगा एव न स्युः । दृश्यन्ते, उपलभ्यन्ते, उपपद्यन्ते च ते संयोगा इति लोके तेषां गतेर्नियामकतयाऽवश्यमभ्युपेय एव धर्मास्तिकायः, तदभ्युपगमे परतस्तद्भावादेव न सिद्धानां - गतिरिति योग्यमेव सिद्धानां भगवतां लोकाग्रे सिद्धिपुरेऽवस्थानमिति ।
किञ्च--चतुदर्शरज्ज्वाऽऽत्मकोऽयं लोको यत् त्रिधाऽधस्तिर्यगूर्ध्वलोकभेदेन तिष्ठति । तत्र लोकाऽनुभावादेवाऽधोलोके पुद्गलानामशुभतर एवाऽनुभावः, यद्वशान्नरकक्षेत्राणामशुभतरत्वात्तीत्रतीव्रतर तीव्रतमवेदनानां भवत्युद्भवः । तिर्यग्लोके मध्यमानुभावो लोकाऽनुभावादेव पुद्गलानां विद्यते, ततश्च तिर्यङ्-मनुष्यास्तत्र वर्तमानाः मध्यमरीतिजानि सुखानि वेदयन्ति तद्वदेव चोर्ध्वलोके ये वर्तन्ते पुदगलास्ते शुभ-शुभतर-शुभतमाऽऽदिपरिणामा लोकाऽनुभावादेव भवन्ति यावत् सर्वार्थसिद्धस्थाने सर्वलोकगतजीवाऽपेक्षया प्रकृष्टपुण्यवन्तो जोवा उत्पद्यन्ते, प्रकृष्टतरं च सातावेदनीयं क्षेत्रानुभावजातशुभपुद्गलसंयोगादनुभवन्ति, पौगलिकत्वात् सातावेदनीयकर्मगः, तस्मादप्युपरितने भागे या सिद्धशिला तत्र तदुपरितने च भागे पुद्गलानां लोकाऽनुभावादेव परमशुभतरत्वे किञ्चिदपि चोद्यं न तिष्ठति ।