________________
(३६)
भावात् समेषां पदानां सामान्यरूपतया विशेषरूपतया चेति यद् विज्ञानद्वयं न तत् परस्परं विरुद्धं बाधकं वा, अनावरणानां च महात्मनां सर्वदा सर्वेषामर्थानां स्वस्वरूपेण भानात् , सर्वेषामप्यर्थानां सामान्यरूपतया च भानमावश्यकं, विशेषतश्च प्रतिसमयमखिलविश्वगताऽखिलपदार्थवेदनापटीयो बोधवतां सर्वज्ञानाम् ।
ततः सर्वेऽपि सर्वज्ञाः प्रतिक्षण मखिलाऽर्थानां विशेषरूपतया वोधात् सर्वज्ञत्वाऽङ्किताः सामान्यरूपतया बोधाच्च सर्वदर्शित्वाङ्किताः स्युः । अत एव "प्रतिसमय निखिलाऽर्थग्राहके ज्ञान-दर्शने भगवन्तः केवलिनो धारयन्ती "ति तत्त्वार्थ-भाष्यकाराऽऽदयः ।
तैर्हि 'णाणंमि दंसगंमी'त्यादिगाथाया 'एतो 'त्तिशब्दस्य दिगर्थपञ्चम्यन्तयोजनेन 'इतः प्रागिति कृत्वा अग्रतः केवलिभावस्य वक्ष्यमाणत्वात् केवलित्वात् प्राग् अकैवल्यावस्थायां जीवाः ज्ञानदर्शनयोरेकतरस्मिन्नेवोपयुक्ताः स्युः, प्राते कैवल्ये तु किं स्यादित्याह-'सबस्स केवलिस्स जुगवंति ये केचित्केवलिनस्तेषां सर्वेषामपि ज्ञान-दर्शनयोरुभयोर्युगपदुपयुक्ततेति, तर्हि किमेकस्मिन् समये केवलिनामुपयोगद्वयं ज्ञान-दर्शनविषयकपार्थक्येनेत्याह-'दो णत्थि उवओग 'त्ति । कस्यापि जीवस्य कैवल्यवतस्तद्रहितस्य वा नैकस्मिन् समये पार्थक्येनोपयोगद्वयं स्यात् । . तथा च सेना-स्कन्धावारबोधवद् द्वयात्मकः स उपयोगः, न तु पृथग द्वयरूप इति व्याख्यानं क्रियते । श्रीभगवतीसूत्रं च 'जं समयं 'इत्यादि 'तत् समक 'मित्यर्थयित्वा वर्गाऽऽदिभिर्वशिष्टयस्य ज्ञानता, परस्य तु दर्शनतेति स्वरूपाख्याने पर्यवसोयते । स्नातकोपयोगावपि ज्ञान-दर्शनबोधपर्यवसानतायां नीयते इति भवतु किश्चिदप्यनृतं (?) परं सिद्धाः केवलज्ञान-दर्शनधरा इत्यत्र तु न केषामपि वैमत्यम् ।
आत्मा यतो ज्ञान-दर्शनस्वभावस्ततोऽशरीत्वेऽनिन्द्रियत्वेऽपि च सिद्धानां न केवलज्ञान-दर्शनधरत्वे बाधः कश्चित् । इन्द्रियाणि तु ज्ञान-दर्शनयोर्वहिरन्तरकरणरूपाणि, न तु ज्ञातृणि द्रष्टुणि वा, सत्स्वपि तेषु समानेष्वपि वैचित्र्येणोपल भात् , नाशेऽपि च तेषां तदुपलब्धाऽर्थबोधस्याऽनाशात् ।
किञ्च-आत्मा एव यदि ज्ञानादिस्वभावो देहपर्यन्तव्यापी वा नाभ्युपगम्येत, नास्तिकवादाऽभ्युपगमेनाऽऽभाऽपलापे एवं पर्यवसानं स्यात् , आत्माऽतिरिक्तपदार्थेषु चैतन्योत्पाद-स्थित्यादेरभ्युपगमात, मनोऽप्यात्माऽभिन्नमेवेति सुधीभिरूह्यमान्तरेण बोधेनेति ।
। किञ्च-आत्मनो ज्ञानस्वभावाऽभावे बोधस्य समानेष्वपि साधनेषु न्यूनाधिक्येन वैचित्र्यं न स्यात् , न स्याचाऽनुभूतस्याऽपि तद्भव एव स्मरणाऽस्मरणे, भवाऽन्तरस्मृतिस्त्वात्मन एव ज्ञानपरत्वे एव योग्या, मनसस्तदाधारहवे. तु तस्यैकस्श नित्यस्य चाऽभ्युपगमात् इह पूर्वकालीनाऽनुभूतस्येव पूर्वभवाऽनुभूतस्य सर्वेपामेव वाहुल्येन स्मरणप्रसङ्गस्याऽऽपातः सुदुर्निवार इति ।