________________
जैनदृष्टया स्वव्यतिरिकाऽन्यसर्वपदार्थव्यावृत्तिरूपधर्मोपेतत्वात् । य एव पटे पटस्वभावः, स पटेतराऽभावरूपोऽपीति यावत् परवस्तुज्ञानाभावे एकपदार्थगतानां व्यावृत्तिधर्माणां ज्ञानाऽभावात्, स्वरूपेण ज्ञातस्यैव व्यावृत्तिरूपेण ज्ञानात् । तथा च सर्वेऽर्था अनुत्ति-व्यावृत्तिस्वरूपबत्तामपेक्ष्य सर्वात्मका इति । . ____परदर्शनदृष्टयाऽपि सर्वेऽर्थाः सर्व-तदितरपदार्थाऽन्योन्याऽभावाऽऽश्रयाः, अन्योऽन्याभावनियामकं च तत्पदार्थस्वरूपमेवेति, तत्त्वतः सर्वपदार्थज्ञाने तदितरेतराऽभावज्ञानं, ते चाऽभावा वस्तुरूपेणावच्छिन्ना इत्यवच्छेदकस्वभावज्ञानद्वाराऽपि सकलपदार्थज्ञानाऽविनाभावि एव एकस्याप्यर्थस्य यावत्स्वरूपयुतं ज्ञानमिति ।
एवं च व्यवच्छेदकत्वाभावादसाधारणं, न मत्यादिवद् व्यवच्छेद्यं, सर्वपर्यायोपेत सर्ववस्तुज्ञापकत्वाच सम्पूर्णम् , तदज्ञातस्य कस्याप्यर्थस्याभावोऽतः, मत्यादीनि ज्ञानानि सर्वविषयाणीति स्वाऽज्ञातवस्तुज्ञापनसापेक्षाणि, इदं तु निरवशेषपर्याययुतसमस्तवस्तुज्ञापकमिति नैतद्वतोऽन्यज्ञानाऽपेंक्षा ।
तथा च सर्वथा सर्वदा यदेकमसाधारणं सम्पूर्ण ज्ञानं, तत् पूर्वेभ्यो ज्ञानांशरूपज्ञानेभ्यो विशिष्य केवलेन विशिष्टं ज्ञानं केवलज्ञानमित्युच्यते ।
तच्च यद्यपि क्षपकक्षेणिप्रभावेण मनुष्या उत्पादयितुं शक्ताः, परं मनुष्यत्वस्य शाश्वतत्वाऽभावात्, केवलिनश्च जन्मान्तराभावात् सिद्धदशायामेव तस्यावस्थानमिति केवलज्ञानवराः सिद्धा इत्युक्तमिति । यथैव भगवन्तः सिद्धाः स्वरूपत्वाद्धारकाः केवलज्ञानस्य, तथैव केवलदर्शनमपि तथारूपमेवेंति, तस्यापि धारकास्ते इत्युक्तं केवलज्ञानदर्शनधरा इति ।
___ अत्रेदमवधेयं, यदुत जगति ये केचित् पदार्थास्ते द्विस्वभावा एव, सर्वेषां पदार्थानां यतः स्वरूपवत्ता, ततः स्वरूपमेव सामान्यं, तद्वांश्च विशेषः, एवं 'व्यक्तेरभेद० ' इत्यादिना यो जातिबाधकः समुदायः परपदार्थक्रोडोकरण-परजातिनिरूपक इति न तेन बाधः, एकव्यक्तिकस्यापि स्वस्वरूपवत्वेनैव युक्तत्वादिति ।
___ अत्र च चक्षुरादीनि दर्शनानि पदार्थान् तत्स्वरूपं सहगतान् पृथक् पृथक्तयां गृहणन्ति, पश्चाजायमान आभोगो ज्ञानाऽपरपर्यायो द्वयोरपि वैशिष्टयेनाऽव बोधं करोति । ततश्च दर्शनं सामान्यांचवोधकं ज्ञानं विशेषाऽववोधकं च, कथ्यते च-तथा च न दर्शनं विशेषान् न विषयीकुर्यात् , न वा ज्ञानं सामान्यं न विषयीकुर्यात् , एवं च सर्वज्ञता, सर्वदर्शित्वं च कश्यमानं यथायथमशेषान् अर्थान् विषयीकुर्यात् , न कश्चिददृष्टोऽज्ञातो वा पदार्थः स्यादिति ।
यथा च पर्वतो वह्निमानिति, पर्वते वह्निरिति चानुमानद्वयं न परस्परं विरुद्धम् , न चैनान्यस्य निरर्थकता, तद्वदत्रापि जगद्वर्तिनामशेषाणामर्थानां स्वतन्त्रतया सामान्यरूपतया विशेषरूपतयाँ चं