________________
(३४)
अत्रेदमवधेयं जगति जीवानां यः स्पर्शनाऽऽदीन्द्रियाऽनिन्द्रियैः सावधानताद्वाराऽवबोधो जायते स इन्द्रियाणां मननादुत्पन्नत्वान्मतिशब्देनोच्यते, “स्वभावादेव चात्मनामे कोपयोग ते "ति प्राप्तेष्वनेकेषु स्पर्शेष्वेकस्यैव स्पर्शस्य, रसादिष्वेकस्य रसादेश्व बोधः स्यात्, एवं युगपदने केन्द्रियज्ञानाSनुत्पत्तये समप्रशरीरे व्यापिनोऽपि मनसोऽणुत्वकल्पनं निरर्थकम्, तथाकल्पनेऽप्ये केन्द्रियस्य तद्गतानामनेक-समानचित्रयाणामपरिच्छेदे अन्त्यश आत्मन एकोपयोगस्वभावतायामेव विश्रामादिति ।
यश्चातीन्द्रियाऽर्थदर्शिप्रोक्तानामनीन्द्रियाणामात्मादीनां श्रुतानां ज्ञानं तच्छ्रुतज्ञानं, तत्प्रत्यायने सर्वज्ञ्वचनातिरिक्तस्यास्यान्यस्य कस्यापि प्रमाणस्याभावात्, तद्वचनमात्र प्रतीति श्रद्धेयत्वात्, शिष्टानां च जगति व्यवहार ऐन्द्रियकैः पदार्थैस्ते च सर्वेऽपि रूप-रस- गन्ध-स्पर्शवत्वाद्रूपिण एव, ततश्च रूपपदार्थान् सर्वान् आ-परमाणोराऽचित्तस्कन्धं यदावेदयति ज्ञानाख्यात्मगुणांशः सोऽवधिभूतत्वाद्रूपिमात्रविषयतयाऽवधिज्ञानमिति तृतीयज्ञानभेदतयाऽऽख्यायते ।
ये चावाप्य भगवदर्हदुक्ततत्त्वानां श्रद्धानं करणत्रयोविधानपराक्रमजातेन सम्यक्वेंत स्थिरीभूय च तत्र सद्वृत्तरूपचारित्रस्य ज्ञानेऽपि सम्यक्वप्रभावाच्छ्रेष्ठतमत्वे तदवरोधकानां वत्र परिग्रह - विषय - कषायाद्यधीनत्व जनकानां मोहनीयांशानां यदा विदधन्ति शमादि, तदा तादृशीमवस्थामप्रमत्ताख्यामनुगताः प्राप्नुवन्ति शिष्टानां शिष्टञ्यवहारविषयमितानां चार्धतृतीयद्वीपान्तर्गत सञ्ज्ञिपञ्चेन्द्रियाणां मनचिन्तितान् पदार्थानवगन्तुं शक्नुवन्ति, ते मनसः पर्यायाणामवगमनात्मनःपर्यायज्ञानिन उच्यन्ते । तादृशं ज्ञानं च मनःपर्यायसञ्ज्ञया कथ्यते, लोकानुभावाच्च व्याघ्रानां पद्माविव नेदं प्रतिपदं व्यवहारविपर्यासकारणपरायणम्, वधायासक्तानां न च शब्दादिविषयादिप्रमादपरायणानां योगिनामपि जायते ।
तदेतानि चत्वारि ज्ञानानि देशज्ञापकानि आत्मस्वरूपापेक्षम सर्वविषयागोति मध्यादिभिर्विशेषणेव्यवच्छिय प्रज्ञाप्यन्ते तथा च ज्ञानशब्द आत्मनः स्वभावस्थज्ञानदर्शक, एवं चात्मन एकोपयोगस्वभावत्वमेवेति ।
सर्वोत्तममन्त्यं च पञ्चमं केवलज्ञानम् । तत्र केवळेति न मत्यादिचतुष्कवज्ञानांशधोतनाय व्यवच्छेदकं विशेषणम्, सम्पूर्णस्यात्मज्ञानस्यैव ग्रहात् । तथा च केवलेन युतानेवाश्रित्य नियन्तुं शक्यं ' यन्मानाधीना मेयसिद्धि: ', ' नाऽप्रमाणस्य मेयते 'ति नियमद्वयमपि केवलवन्तमेवाश्रित्य भवेद्योग्यः ।
तथा च यावज्ञेयव्यापित्वात् केवलं, जाते चास्मिन् नान्यज् ज्ञानं, सम्पूर्णत्वादेवास्य, न च तज्ज्ञान - ज्ञेयव्यतिरिक्तं च किञ्चिदन्यद् वस्तु, ततः स्वरूपेण विषयेणाऽप्रतिपक्षवत्त्वात्केवलेति विशेषणेन विशेषितम् ।
किञ्च परेषु मत्यादिषु जातेष्वपि न निश्शेषाणि वस्तूनि तत्तज्ज्ञानेन ज्ञायन्ते, नियतविषयत्वात्तेषाम् । न च यानि वस्तूनि तेन तेन ज्ञायन्ते तान्यपि यावत्स्व पर्यायविशिष्टानि, यतः सर्वान् पर्यायाने कस्यापि वस्तुनः सर्वज्ञ एव वेत्तुमलम् ।