________________
(३३) यद्यपि विद्वांसो लीना आत्मरमणे जीवस्वरूपभूतानां (:)केवलज्ञानाद्यनन्तचतुष्टयस्य निरञ्जनत्वयुतस्य पुद्गलायत्तसारहितस्येत्येषां सद्भावे स्यात् संसारे परिभ्रमणं, (४) न विदध्युः सिद्धत्वाधिगमेच्छामपि, मध्यमबुद्धयश्च यदि संसारे रोगाणां जराया मरणस्य जन्मनश्च चक्रवर्तिनोऽपि तदायत्ततायां प्रवेशात् स्वकीयजनेष्वपि रोगादिप्रवेशस्य निवारयितुमशक्यत्वाच त्रिजगतोऽधिकसामर्थ्येन सर्वासु मदाक्रमणीयता न स्यान्न स्वप्नेऽपि धारयेयुर्मोक्षमाप्तुं, परमाबालगोपाङ्गनं सर्वं जगत् गर्भवसति-जन्म-बाल्ये-ष्टवियोगाऽनिष्टसंयोगाऽमीप्सिताऽर्थाऽप्राप्ति-नाशाऽऽधि-व्याधि-रोग-शोक-जराजीर्णत्व-मृत्यु-पराधीनत्वादयश्चेत् संसारे व्याबाधावहा न भवेयुर्न चैव वाञ्छेयुरल्यावाधपदप्राप्ति, परं प्रतिभवं गर्भवसत्याया आबाधा अनिवारणीयतया आपतन्त्येव, न च ता रोड़े केनापि परमेश्वरवादिनापि पार्यते, सिद्धत्वमेव बाधाभिः रहितमिति कृत्वैवाभीप्सन्ति सिद्धि साधयितुम् । तत्र सिद्धत्वेऽपि न चेद् व्यायाधानामभावः, न चैव तत्प्रति कस्यापि स्यात् प्रेप्सेति सुष्ट्रक्तं-'प्रणष्टव्यावाधा' इति । . तत्वेषु सप्तसु जीवतत्त्वस्यैकरूपत्वात् न सिदाऽऽ:मनां संसारिभ्यः स्वरूपेणाऽस्ति भेदः, किन्तु संसारिणां स्वरूपं ज्ञानाऽऽवरणीयादिभिश्चतुर्भिर्वातिकर्मभिरावृत्य प्रवृत्तिरहितं कृतं, शेपैश्चतुर्भिरघातिभिश्च प्रापितं विकारं, भगवतां सिद्धानां तु सकलमात्मस्वरूपमनावृतिमत्त्वादसंयुक्तत्वाच्च स्वव्यतिरिक्तैः, यथावदेव प्रवृत्तिमदिति सत्यपि एतावान् भेदावग्रहो भावतो निश्चयेन वा जातसम्यक्त्वानां स्यात् । यतस्त एव सदादिनिर्देशाऽऽदिभिरैरवगच्छन्ति जीवादीनि तत्त्वानि । ये तु ग्रन्थिभेदं विधायापि तथाविघयोधरहिता “ जिनप्रज्ञप्ताः पदार्था जीवादय एव तत्त्वानी"त्येवं प्रतिपन्ना व्यवहारेण द्रव्यतो सम्यग्दृशो जीवास्ते तथारूपं सिद्ध-संसारिणां स्वरूपभेदमजानाना अपि श्रीजिनोपज्ञया अव्यावाघो नान्यत्र क्वचिदपि चतुर्दशरग्वात्मकेऽपि लोके, किन्तु लोकाग्रभागस्थिते शिवालये एव सर्वथा सर्वकालोनो व्यावाधाऽभावोऽस्तीति निशम्य केवलं व्याबाधाऽभावमाश्रित्यैव भगवजिनोक्तं शिवसाधकाऽनुष्ठानमनुतिष्ठन्ति, बहवश्च ज्ञानाऽऽवरणस्वाभाव्यादेतादृशो जीवा विशेषतश्चाधुनेति व्यावाघानां जरा-मरणनिषेधद्वारा साधननिषेधेन 'अपेतकर्मकलङ्का 'इत्यनेन कारणनिषेधेन सर्वथा निषेधे कृतेऽपि स्पष्टतया तासां निषेधाय व्यावाधानां सूत्रमिदं 'प्रणष्टव्यावाधा' इति, तथा च गतार्थतामाशंक्य नाऽनर्थताऽस्य शङ्कचेति । । ____ यद्यप्येतैर्विशेषणत्रयैः सिद्धानां भव्यैरभीप्सनीयं स्वरूपं सिद्धं, परं प्रेक्षापूर्वकारिणो न केवलमनिष्टभर विनिवर्तयन्तः स्वान् कृतार्थानभिमन्यन्ते, किन्तु पराऽसाध्येष्टतमसञ्चयसियैदेतीष्टसम्पत्. सिद्धिरपि दर्शनीया सिद्धानामित्याहुः- केवलज्ञान-दर्शना' इति । यद्वा नैयायिक-वैशेषिकाऽऽदयोऽपि यन्निःश्रेयसमभ्युपगच्छन्ति तस्य विशेषगुणोच्छेदरूपत्वेन ज्ञानाऽऽदिचतुष्टयराहित्यवत्त्वमभ्युपयन्ति, परं तेषामपि मतेन मुक्तेषु जरादयस्तु नैवांऽशतोऽपि सन्तीति तादृशजडात्मकमुक्तत्वव्यच्छेदायाहुः- केवलज्ञानदर्शना' इति ।