________________
. (३२) शोधनीयं, कर्माण्येव च कलङ्करूपाणीति तान्येव शोधनप्रयत्नविश्याणि । अत एव च जैनानां शासने कर्मणामेव निर्विशेषतया शत्रुसंज्ञा । तत एव च भगवतामर्हतां निरुक्ते 'अरिहंताणं' निर्विशेषणेनाऽरिशब्देन कर्माण्युच्यन्ते, उच्यते च-'अट्ठविहं जं कम्मं अरिभूयं होइ सयजीवाण"-मिति नियुक्तिकारैरप्यष्टविधस्य कर्मण एवाऽरिभूतःवमिति । अपेतशब्देन सर्वथा कर्मकलङ्कराहित्यदर्शनात् बन्धो-दयसत्ताव्यवच्छेदः सिद्धानां ज्ञातत्यः । ततश्च यद्यपि सर्वेऽपि संसारिणोऽनुसमयमष्टविधानां कर्मणामुदयात् प्रतिसमयमेव 'विपाकोऽनुभावः, ततश्च निर्जरे'ति मुच्यन्त एवैभिः कर्मभिरष्टभिरपि, परं न कोऽपि संसारी कर्मसत्त्ववर्जितः, किन्तु तद्वन्त एव संसारिणः । अत एव 'संसारसमापन्नाः असंसारसमापन्ना' इत्यागमेषु सिद्ध-संसारिभेदौ निदर्शितौ, सर्वथा कर्मसत्त्वविनिर्मुक्ताः सिद्धा एव, नाऽन्ये केचिदिति सुष्टूक्तम् 'अपेतकर्मकलङ्का' इति । ईदृशाः सिद्धाः शरणमिति प्रक्रमान्ते योजनं, न च वाच्यं कर्मणां कलङ्केनौपम्यमसङ्गतं, यतः कर्मणां सनिदानत्वात् सकर्तृकत्वाच्चात्मना न सहभावित्वम् , कलङ्कस्य सदा चन्द्रमसि भाव इति वैषम्यादिति, यतः प्राक् तावत् आत्मभिः सह कर्मणां लोलीभाव एव बन्धः, वहन्ययस्पिण्डवल्लोलीभावाच्च कथञ्चित्तद्रूपताऽङ्गीक्रियते ।
किञ्च-कलङ्कस्य सर्वथाऽपगमे कथञ्चित्तदभिन्नत्वेऽपि न कलङ्किनोऽपगमः, तद्वदात्मभ्योऽपृथग्भूतानामपि कर्मणां सर्वथाऽपगमे नात्मनोऽपगमः, किन्तु कलङ्काऽपगमे कलङ्किवस्तुवदतिशयितस्वाभाविकनैर्मल्यवानेवात्मेति । ज्ञानाऽऽवरणीयाऽऽदिकर्मकलङ्कस्याऽनभ्युपगमे सर्वेषां सर्वज्ञत्वस्यामुमतामभावात् सर्वज्ञत्वं आत्मनां स्वभावः न स्यात्, उत्पद्यमानानां ज्ञानानामानन्त्याभावात् , अक्षाणां सर्वार्थगोचरस्वाभावाच्च न युगपदनन्तसकलपदार्थज्ञानरूपं सर्वज्ञत्वं सम्भवेत्, अपेतकर्मकलङ्कानां त्वदेहत्वात् ज्ञानस्यांशोऽपि न स्यात् , जडत्वापत्तरिष्टत्वं तु न जडा अपि स्वीकुर्वते ।
ततश्च आत्मनां संसारिणां कर्माणि ज्ञानाऽऽवरणीयाऽऽदीनि छादकत्वात् कलङ्करूपाणि । ज्ञानाsऽवरणीयाऽऽदिककर्म-कलङ्काऽभावः सार्वश्योत्पत्तेरादावेव जातः, परं सिद्धत्वदशामवाप्तोऽपि सिद्धाऽऽत्मा सार्वक्याऽऽदिस्वरूपेणैव तिष्ठति, न भवाऽत्ययेन तत्स्वरूपं व्यपैति । अत एव शक्रस्तवे भगवतामहतां भवाऽवस्थामाश्रित्य 'अप्पडिहयवरणाण-दसणधराणमित्याधुक्त्वोक्तेऽपि सार्वश्ये तेषां भगवतां सिद्धत्वदशामभ्युपगतानामपि तत्साश्यं तिष्ठत्येवेति ज्ञापनाय प्रोक्तं-"सवणूणं सबदरिसीणं 'ति । तदेवं कर्मकलङ्कदूरीकरणेनाऽवाप्तकेवला अवश्यं भवोपग्राहीणि चत्वारि नन्त्येव कर्माणि ।
एवं च जरा-मरणवन्धनकारणघात्युच्छेदे सर्वकर्मणां व्युच्छेदः, व्युच्छेदे च तेषां कारणोच्छेदेऽवश्य कार्योच्छेदस्य भावादाहुः-'प्रणष्टव्यावाधा' इति । अपुनर्भावार्थः प्रः, ततश्चाऽपुनर्भावेन तेषामबाधा नष्टाः, शेपसंसारिणामुदितानां कर्मणां क्षयात् तजन्या आवाधा नश्येयुः, न तासां तेषां नाशोऽपुनर्भावेन, पुनर्जन्माऽऽदिमये संसारे परिभ्रमणादवश्यं तासां तत्र भावादिति । अत एव चार्षे-'परिणिचाये' तिपदेन सदैव 'सबदुक्खाणमंतं करेंती 'त्युच्यते ।