________________
(३१) जिना अपि "जन्म-जरा-मरणाऽऽर्तमशरणं जगदभिसमीक्ष्य निस्सार"मितिवचनेन सार्वजनीनं जन्म-जरा-मरणोद्धारमभ्यध्यासिषुरिति ।
यद्यपि भयत्रयीहीनत्वं भगवतां सिद्धानां, तथापि भाविनो जन्मनो लौकिकप्रत्यक्षाऽविषयत्वान्न तथा भयकारिता, यथा लौकिकप्रत्यक्षगम्याभ्यां जरा-मरणाभ्यामिति ग्रहणमनये रेव । वस्तुतस्तु जन्मन्यवरुद्धे न केनापि रोढुं शक्यं परतीर्थीयानां परमेश्वरपदाऽधिरूढानामपि मरणं जातमेव शरणमन्त्य (2) इति ।
एवं सकलं जगत् जरा-मरणाभ्यां बिभेति, परं तैश्च शक्यरोधे एव (:) जन्मरोधे एव ते निरुध्येते इति सम्यग्दृशो भीता जन्म-गर्भवसतेः, परमत्र लौकिकानुवृत्त्या क्षीण-जरामरणत्वमेव सिद्धानां स्तुतमिति । 'जातस्य हि ध्रुवो मृत्यु' रित्यविसंवादि वचनं, 'मृतस्य जननं ध्रुव'-मिति संसारिणमाश्रित्य । ततश्चाऽऽवश्यकमेव जरा-मरणाभ्यामुद्वेगवद्भिर्जन्मनस्तन्मूलरूपाया गर्भवसतेश्वोद्विजितव्यं, जरा-मरणयोरभावस्य जन्म-गर्भवसत्यभाव एव भावात् ।
एवं सत्यप्यत्र पूर्वोक्तहेतोर्जरा-मरणयोः क्षीणत्वं सिद्धानामाद्यगुणतया प्रतिपादितम् । आगमेष्वपि औदारिकाऽऽदीनां सर्वविग्रहाणां मोक्षकाल एव प्रोच्यते । भगवान् श्रीहरिभद्रसूरिस्तु-"आत्यन्तिको वियोगस्तु, देहादेर्मोक्ष उच्यते" इत्युक्त्वाऽन्त्यमरणमेव मोक्षतयोक्तत्वान्, मरणविभक्ति प्रकरणेऽपि केवलिनां मरणं पृथगेवोच्यते। एवं च तथाप्रकारमरणकरणेनाऽन्यमरणनिवृत्तिरेव मोक्षतया पर्यवस्यतीति, तद्वाहित्यमपि सिद्धानामुच्यमानं नाऽसङ्गततरम् । एवं यत् सिद्धानां जरा-मरणराहित्य, तन्न स्वतन्त्रतया कल्पनाशिल्पितं वा, किन्तु तत्कारणाभावस्य सम्पादनेनैव, न हि सनिदानस्य निदानस्यानुच्छेदे कदापि निदानिनो व्युच्छेदः सम्भवति, निदानत्वस्यैव व्याघातात्, जरा-मरणानि जन्म च सनिदानान्येव,
"अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि ।
तृष्णाजलाभिषिक्तं, मुञ्चति जन्माऽङ्कुरं जन्तोः ॥१॥" इत्यादिवचनात् । तस्माद् भगवतां सिद्धानामपि जरा-मरणोच्छेदस्य वास्तवताप्रदर्शनार्थमाहुः'अपेतकर्मकलङ्काः' इति, अत्र च कर्मणां कलङ्कत्वकथनेनाऽऽत्मनश्चन्द्रत्वं ज्ञाप्यते । उच्यते च
" स्थितः शीतांशुवज्जीवः, स्वभावेन सुनिर्मलः।
चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥ इति ।" ततश्च यथा चन्द्रमाः स्वयं तेजोरूपः, न त्वन्यतेजसामाधारः, तद्वदाऽऽत्माऽपि स्वयं ज्ञानस्वरूपः, न तु ज्ञानाऽऽदीनामधिकरणम्, नहि सुवर्णे कपो यथाऽन्यत आगतः, किन्तु स्वभावसिद्धः, तद्पमेव च सुवर्णं, तथाऽत्राप्यात्मा ज्ञानमयः, ज्ञानरूप एवात्मा । पृथगुत्पद्य ज्ञानं चेदात्मनि समवायेत, आकाशकालादावप्यमूर्ते पुसमवायेत,तच्च त्रिष्वपि कालेषु न जायते, न च मनागपि अज्ञान्यात्मवादिनां परतीर्थीयानां वैशेषिकादीनामिति ।
अन्यच्च कर्मणां कलङ्कृत्वकथनेनैतदपि स्पष्टितमेव, यदुत-भवितुकामानां जीवानां नान्यत् किमपि