________________
(३०) किञ्च-आचार्यादयः परमेष्ठिस्वरूपा अपि साधुपदेन शरणतया स्वीकार्या अपि न मुक्तिगतिपर्यवसाना नियमेन तद्भवे भवन्ति, परं भगवन्तोऽर्हन्तस्तु सर्वेषां भव्यानामादर्शरूपा इति मोक्षपर्यवसाना एव यदि स्युस्तहि ते परमात्मतयाऽऽदर्शरूपतयाऽऽराध्या शरण्याः स्युरित्यवश्यं भगवतामर्हतां शरणस्य याथार्थ्याय सिद्धिस्तद्वन्तश्च सिद्धाः स्वीकार्याः, शरणं च तेषां स्वीकर्तव्यं सर्वबाधाऽतीत-सर्वगुणपूर्णत्वात्तेषामिति ।
तथा च भगवतां सिद्धानां निराबाधं सर्वकालं सम्पूर्णगुणवत्तयाऽवस्थानमेव भव्यानां परमाऽऽलम्बनं मोक्षमार्गस्याऽनुसरणायेति कथं तेऽकरणा अर्हन्ति शरणं कर्तुमिति विचारस्य नावकाशः । एवमर्हच्छरणवदेवाऽन्यूनाऽतिरिक्ततया सिद्धाः शरणमिति दर्शितम् ।
तेन चैतदपि प्रतितक्षिप्तमेव, यदुत-सिद्धाः कृतार्था इति योग्याः शरणं विधातुः, तद्विपरोता एमाहन्तः कर्मोदयाद्यधीनत्वात्तेषां इति कथं शरणत्वमिति, यतः केवलज्ञानाचा आत्मगुणा निराबाधं सम्पूर्णा एवार्हतामपीति योग्या एव ते शरणं कर्तुम् ।
किञ्च-अत्र यदादी सिद्धशरणादहन्छरणस्य स्वीकारस्तस्यैषोऽर्थः-यदुताऽहंदुपदेशेन सिद्धत्वावाप्तिः, सिद्धानां सदा सत्त्वं, सिद्धार्गश्च भगवदर्हत्प्रामाण्यादेव प्रामाण्यपदवीमासादयति, ततश्च भंगवताहतामेवादो प्रणामस्य स्वीकारो न्याय्यः शरणं चाप्यत एव तेषामादौ, न हि कारणात् क्वचिदपि पूर्व कार्य स्याद्, अर्हन्त एव च सिद्धभावस्य कारणमित्यापि प्रागेवाहतां शरणे स्वीकारो न्याय्य इति ।
अत्र भगवतां सिद्धानां प्रागेव जन्म-जरा-मरणकारणीभूतानां कर्मणां विच्छेदो जायते इति तमेव गुणमादावाहुः, आऽपि-'छिण्णजाइ-जरा-मरण-बन्धणे 'त्ति पठ्यते ।
किञ्च-त एव सिद्धशब्दवाच्याः स्युर्ये जाति-जरा-मरणानि तन्निबन्धन-कर्मवल्लीनिर्मूलनद्वारा छिन्द्येयुः, अन्येषां जन्माऽनुरादिसद्भावे शरीरादीनां तवारैव तज्जन्यानां जन्मादिदुःखानां चाऽवश्यं भावेन कृतकृत्यत्वाभावात् सिद्धत्वाभावादिति ।
नैयायिकानां यथा वीतरागाणां जन्मादर्शनं, तथाऽत्राऽऽर्षे प्रवचने वीतरागत्वे वास्तां, अप्रमत्तदशायामपि न प्रेत्य-जन्मकारणस्यायुषो बन्धः, न चायुष उदयाभावे कासाञ्चिदपि गत्यादिप्रकृतीनामुदय इति । सिद्धत्वस्याऽऽयं कारणं जन्माऽन्तरस्यायुषो बन्धस्याभाव इति । जन्माऽभावे च जरा-मरणयोस्त्वभावः स्वभावसिद्धत्वात् एव, प्रतिपादनं तु जरा-मरणयोरभावस्यावालगोपालाङ्गनं ताभ्यां भयातिरेकस्य स्वभावसिद्धत्वात् ।
अनेनैतदपि ज्ञाप्यते, यदुत सिद्धानां निरावाध-ज्ञान-दर्शन-सुख-वीर्याऽनन्त्यरूपचतुष्टयपूर्णत्वेन नित्याऽऽनन्दमयत्वात्तदवस्थायाः परमाऽऽश्रयणीयत्वेऽपि आबालगोपालगनं सिद्धं जरा-मरणोद्भवं सर्वाss"स्तिक-नास्तिकस्वीकार्य, जन्मभयं च सिद्धावस्थायां सत्यां न भवतीत्यर्विवादेनैव सर्वैरपि जन्म-जरामरणभयैरवश्यमेष्टव्यं सिद्धत्वमिति ।