________________
(२९) साध्येन मोक्षेण युतां सप्ततत्त्वीमुपदिशन्त एव भवाब्धितारकभावमभ्युपयन्ति, त एव च . भवाब्धौ ब्रुडमानानामसुमतामेकान्तेन शरण्या भवितुमर्हन्ति । .
अत एव परेषां नोदनावचनवज्जैनानां जिनेन्द्रोपदेश एवेष्टप्राप्त्य-निष्टनिवारणप्रत्यलः, नह्यास्तिकानां विहाय श्रीजिनेन्द्रोपदेशं इष्टप्राप्त्याऽऽदिसाधनज्ञानं सम्मतं, आस्तिकाश्चाऽत्र जीवे कथञ्चिदस्तित्व-नित्यत्व-कर्मकर्तृत्व-तद्भोक्तृत्व-मोक्ष-तदुपायसत्त्वानां श्रद्धानं न तु परलोकयायिता-मात्रस्वीकाररूपं, एवं सुदृढमिदमेव मनीषिणां मननीयतरं यदुत-भगवन्तोऽर्हन्त एव भवजलधावेकान्तशरण्याः , नान्यः कश्चिदप्यन्यतीर्थीय इति ।
"इत्थम्भूताः परमत्रिलोकनाथत्वाऽऽदिगुणयुक्ता अर्हन्त एव, अर्हन्तो भगवन्तश्चेत्थम्भूतगुणयुक्ता एवे" त्युभयथाऽवधारणाय रूढस्य भगवत्पदस्याहत्पदस्य चान्तरा विशेषणानां समुदाय इति । एवं च सिद्धादिष्वपि मध्ये विशेषणन्यासे हेतुरवधारणीय इति । अस्त्वितिक्रियाऽध्याहारात् 'शरणं सन्तु ' पूर्वोक्तस्वरूपा अर्हन्त इति । शरण महणेन च ' भयङ्करभवाऽऽवर्तात् त्रस्तोऽहं, न च तस्मात् त्राणकारी जगत्यपि विद्यते इति निश्चयवानहं, भगवन्तोऽर्हन्तश्वावश्यमेव तादृशाद् भवावर्तात् त्राणकर्तारः सन्ति, इति निश्चयवाँश्चाहं भगवतामहंतामनन्यभक्तो भवामीति प्रतिजानीते ।
शरणग्रहात् प्रागेवाऽन्यत्र मङ्गल-लोको-त्तमत्वयोरध्यवसायस्य दर्शनादिहापि तदाशयानुवेधेनैव व्यास्यानस्यनुचितत्वात् ।
वस्तुतस्तु भगवन्तोऽर्हन्तः सर्वजगत एव शरणं, परं यो यः पूर्वोक्तरीत्या शरणं गन्ता, स स शरणफलं लभत इति शरणग्रहणस्य तत्त्वमिति ।
यथा सेधितुकामेन भगवन्तोऽर्हन्तः शरणीकर्तव्यास्तथा भगवन्तः सिद्धा अपीति दर्शयितुं सिद्धशरणमभिधातुमाहुः-तथेति । यथा हि भगवन्तोऽहन्तः सिद्धार्गस्य प्रदर्शकत्वेन शरण्याः, शरणं च तेषामायातस्तथैवेति-अन्यूनाऽतिरिक्तभावेनैव सिद्धा अपि शरण्या एव, शरणं च तेषां प्रपन्नोऽस्मीति ।
किञ्च-तथेत्यव्ययेनैतदपि सूच्यते यदुत-न ह्यत्र सिद्धसूत्रस्य परसूत्रत्वात् व्याकरणरीत्या येनार्हच्छरणं पूर्व बाधयित्वा सिद्धानां शरणं स्वीक्रियते इति । पूर्वाऽपर-बाध्यबाधकभावोऽनेन, किन्तु समुच्चयः ।
तथा च यथाऽन्तः शरणं तथा सिद्धा अपि शरणमिति, यद्वाऽनुवृत्त्यैव तथाभावेन शरणस्वीकारलाभे तथाशब्दो विशेषं द्योतयति यदुत-श्रीमतां भगवतामर्हतामहत्त्वं भव्यानां भवोदधितारणाय तीर्थप्रवर्तकत्वेनैवास्ति, एवं च चेत् सिद्भिस्तद्वन्तश्च सिद्धा न स्युस्तर्हि स सर्वोऽप्यभिसन्धिर्व्यर्थः, तथा नोपकारित्वमर्हतां किन्त्वपकारित्वं, व्यर्थस्यैव मार्गो यतो देशित इति ।.