________________
. (२८) नन्वेवं महार्थकरत्वेऽपि महानर्थकारित्वमपि भगवतामर्हतामापन्नमिति वैतालवदुःसाधाध्यास्ते, न चैकान्तेन शरण्या इति चेदाहुः- ' भवजलधिपोता' इति ।
चतुर्गतिमय-भयङ्करभवाऽऽवर्तभीषण-भवोदधितारणे भव्यानामसाधारणपोतायमानाः जिनवरा हि जिननामकर्मोदयादेव भवन्ति, जिनाऽभिधानकर्मबन्धश्च वरवोधिमतामेव, वरवोधिश्च तस्यैव स्यात् यो लब्धा सम्यक्त्वं ' किमेतादृशे भवजलधितारणसमर्थे सति जिनशासने जीवा भवोदधेः परं पारं नाप्नुवन्ति ?, तदमून् सर्वान् भवजलधेः परं पारमनेन नैर्ग्रन्थशासनेन नयामी "ति विचारयति, ततः प्रभृति स वग्बोधिमान् सर्वथा सर्वदा परार्थोद्यत एव भवति, परार्थोद्यतत्वादेव च जिननामकर्म निकाचयन् अनन्तं संसारमपवर्तयन् भवं तृतीयमवण्वष्क्याऽपवर्तयति, शास्त्रकारा अपि 'तइयभवोसकइत्ताण 'मित्याहुः ।
तथा च ' जिनेश्वरा भगवन्तो ह्यनेकभवेषु भव्यानां भवाब्धेस्तारणे एवोधता' इति यथार्थमेव भवजलधितारणपोतायमानत्वं भगवतां, विराधकानां संसारपातकारणत्वं तूलकानां स्वस्वभावस्य हीनत्वेन यथा उष्णांशुकिरणानामन्धत्वकारणता तथा ज्ञेयम् । भगवन्तस्तु स्वाऽभिप्रायेण तारणाऽनुकूलस्य तीर्थादेविधातृत्वेन च भव्यानां भवाऽऽभियङ्कर-भवजलधितारणप्रत्यल-पोतायमानत्वमेव, भगवतामर्हतां भवजलधिपोतत्वं च न केवलं स्वस्य भक्तानां वा कल्पनामात्रोद्भवं, किन्तु भयङ्करभवाऽऽवतंभीषण-भवोदधितारणसमर्थस्य शरणस्य दातृत्वेनैव, तत आहुः- एकान्तशरण्या' इति,
एवं च भगवतामहतां परमभक्तिपात्रत्वेन शरणस्वीकारो भवितुकामेन कृत इति ।
सर्वेऽपि परतीर्थीयाः परमेश्वराः भवावर्त्तस्य जन्म जरातङ्काऽऽनिष्टसंयोगाऽऽदिदुःखप्रचुरतया सदाऽङ्गिनामेकाकितया संयुक्तान् सर्वान् विमुच्याऽशरणतया प्रभ्रष्टस्वार्थेन परिभ्रमणरूपतया निःसाराऽशरणत्वात्तत्तारणक्षमत्वं स्वेषां दर्शयन्येव मुक्तिपर्यवसानत्वादेवास्तिकवादानां, परं तत् त्राणकारित्वं तेपामेव सम्भवति, ये स्वयं भवनिबन्धनेभ्यो दूरतरीभूय परानपि तेभ्यो दूरीकतु प्रत्यलाः स्युः ।।
___ भगवन्तोऽर्हन्तस्तु क्षपकश्रेणिक्रमेण क्षपयित्वा मोहं, निहत्य च तद्वलेन बलवन्ति ज्ञानाssवरणीयाऽऽदीनि कर्माणि, निश्शेषवातिकर्मक्षयप्रभावेणैवावाप्त केवला रूपादिलौकिकप्रत्यक्षाऽतीताssस्माद्यतीन्द्रियान् पदार्थान् ज्ञात्वा, तत्स्वरूपभूतांस्तद्गुणान् ज्ञानादीनवेयन्ति, तत एव च तादृग्ज्ञानादीनां घातकान् ज्ञानाऽऽवरणाऽऽदीनवगच्छन्ति, यथार्थतया केवलाऽऽलोकेन ज्ञात्वा सर्व प्रज्ञापनीयपदार्थजालं भन्यानां पुरः प्ररूपयन्ति न चैषा प्ररूपणाऽपिं जीव-स्वभावभूतानां ज्ञानादीनां तदावारकाणां च कर्मणां क्वचिदपि लौकिके मार्गे विद्यते, दूरे तद्विपयो हेयो-पादेयतयोपदेश इति ।
ततश्च भव्यानां भवाब्धितारणायैव जीवाऽजीवरूप-तत्त्वद्वयीद्वारा सकलजगद्वर्तितखानां जातेsप्युपदेशे भवाब्धेस्तारणे समर्थे संवर-निजेरे, तबाधको चाश्रव-बन्धाववश्यमुपदेश्यपथमायातः, एवं