________________
(२७). स्माविष्करणान्न तत्रातिशयोक्तेर्लेशस्य कल्पितत्वस्य वांऽशेनापि सम्भवः, विलोकनाच्चापि तत्रस्थस्य तवृत्तस्य न कस्यापि सकर्णस्य तेषां क्षीण-घातिकर्मावस्थाप्राग्वृत्तवृत्तस्यावलोकनादाशङ्कालेशोऽपि क्षीणघातिकर्मत्वे तेषामिति ।
मूर्तिरपि च श्रीमदर्हतां भगवतामेव क्षीण-राग-द्वेष-मोहत्वमुगिरन्ती दृश्यते, यतस्तेषामेव प्रतिमायां वक्त्राब्जं शान्तरसनिमग्नं, अक्षिणी निर्विकारे नासाग्रस्थायिनी, मुखाब्जं च हास्याऽऽदिदोषततिवर्जितं, शरीरं समग्रं श्लथं पर्यङ्कासनस्थं च, एतादृश्या एव मुद्रया वीतरागत्वस्याऽऽवेदनं सहजमेव, वीतरागत्वावलम्बिन्या मुद्रयाऽपि विरहितत्वादन्येषामयमुपहासः कविभिः क्रियते यदुत“'नर्तका अपि नृपाऽऽदीनां वेपं धारयन्तस्तदीयां मुद्रामादावेवोद्वहन्ति, इमे तु परतीथिका देवकोटि प्रवेष्टुमिच्छवो देवस्य मुद्रां विधातुमपि न विज्ञा" इति ।
. तथा च भगवतामहतामेव मूर्तिभंगवतां क्षीणराग द्वेष-मोहत्वदशा-शंसिनीति भगवतां श्रीमतामर्हता क्षीण-रागद्वेषमोहता तेषामागमाद्, वृत्तान् मूर्तितश्च सिद्धिसौधमध्यारोहन्ती न केनापि शक्यते निवारयितुमिति ।
यद्यपि शास्त्रीयन्यायेन क्षीणरागा इत्येतावन्मात्रस्योक्तो क्षीणद्वेष-मोहत्वं प्रतीयत एव, मायालोभकषायद्वयलक्षणरागस्य विलयो द्वेष-मोहयोः क्षयादनन्तरमेव यतो भवतीति; परं भगवत्स्वर्हत्सु परमात्मसु सर्वथा कुदेवत्वस्याऽयोगं परेषां च कुतीर्थ्यानां कुदेवत्वपरिपूर्णतां च दर्शयितुमुक्तं क्षीणरागद्वेषमोहा' इति ।
एवम्भूतानां लोकातिगानां गुणानां निलया अपि भगवन्तोऽर्हन्तः स्वकृतभोगिनां संसारिजीवानां न त्राणं विधातुं समर्था भवन्ति, तत आहुः–'अचिन्त्यचिन्तामणय' इति । - यद्वा जगति त एव विधातुमलं दुःखभराऽऽकान्तानां त्राणं, ये शरणागतेषु प्रीतमनसः सन्तस्तान् शरणमुपेतानपेक्ष्य स्वस्य वज्रपञ्जरताभिमानमुद्हेयुः, शरणाऽऽगतानां प्राणिनां बाधकेषु परेषु च जीवेष्वजीवेषु वा समूलकाषं कषणाऽवधिकं रोषमादधते, शरणाऽऽगतानां त्राणसाधनेषु विरोधिनां क्षयकारकेषु, स्वेषां नियतैकस्थितिकारकेषु कारणसमूहेषु दृढबद्धाऽन्तःकरणास्तद्रक्षणैकचित्ताश्च स्युः, भगवन्तोऽहन्तस्तु क्षीणरागद्वेषमोहा इति कथं शरणे साधवः स्युरित्याहु:-'अचिन्त्यचिन्तामणय' इति ।
यथाहि चिन्तामण्यादय आराधक-विराधकेष्वरक्तद्विष्टाः सन्तः आराधकानामिष्टसिद्धयादिनेष्टाsर्थसाधकत्वं विराधकानां च दारिद्रापत्याऽऽदिनाऽनिष्टाऽऽपादनद्वाराऽनिष्टोत्पादका भवन्ति, भगवन्तोऽन्तः क्षीणरागद्वेषमोहा अपि तद्गुणज्ञानबहुमानाऽऽदरादिनाऽऽराधकानामानन्तर्येण प्राप्यत्वाभिमतमभ्युदयं, पारम्पर्येण साध्यत्वेन बहुमानितं निःश्रेयसं सम्पादयन्ति, तदाज्ञाऽनङ्गीकाराऽऽश्रवप्रवृत्त्यादिभिविराधकानां चानन्त-संसारवृद्धि-दुर्लभबोधित्वादिनाऽनिष्टभरं सम्पादयन्ति ।