________________
सिद्धे चैव कुदेवत्वाऽभावे वीतरागत्वसिद्धया सार्वश्यसिद्धिः, तस्यां च यथावस्थितवादित्वाऽsदिसाधनं सुकरमेव, सिद्धेष्वेव चैतेष्वभीप्सिताऽहतां भगवतां सुदेवत्वसिद्धिरप्रतिहतैवेति प्रोक्तमावश्यक प्रकरणकारै गवतामर्हतां विशेषणं 'क्षीणरागद्वेषमोहा' इति ।
क्षीणाश्चाऽपुनर्भावेन विलयं गताः, अन्यथा तु प्रतिक्षणं संसारिणां राग-द्वेष-मोहानां वेदनात् "विपाकोऽनुभावः, ततश्च निर्जरे "ति वचनप्रामाण्याद् क्षीयन्ते एव राग-द्वेष-मोहानां परिणतयस्तत्कारणभूतानि कर्माणि च । राग-द्वेष-मोहानामपुनर्भावेन क्षयः क्षपकश्रेण्या एव नोपशमश्रेण्या " अर्हन्तो भगवन्तश्च तीर्थंकरभवे नोपशमश्रेणिमारोहन्ति, न चापरमप्यौपशमिकभावं, किन्तु क्षायिकमेव भावं।"
जात्यं हि रत्नं नैर्मल्यमासादयदवस्थं स्वकान्तिप्राग्भारेणाऽऽलयमुद्योतयत्येव, न कदाप्यन्धपाषाणादिवदप्रकाशं तद् भवति । तद्वजिना तथाविधसाधना क्षायिकमेव भावमाप्नुवन्तीति योग्यमुक्तं'क्षीण-राग-द्वेष-मोहा' इति । क्षीण-राग-द्वेष-मोहत्वादेव च न स्त्री-शस्ना-ऽक्षमालाऽऽद्यङ्काः, न च जगज्जनन-स्येम-क्षयाऽऽदिवादेन जंगती-जागतोनिग्रहाऽनुग्रहयोर्दर्शकाः ।
श्रीमदर्हतां भगवतां क्षीण-रागद्वेषमोहता तु तदीयानामागमात्, वृत्तात् , मूर्तश्च ।
यतस्तैः केवलस्य मोक्षस्यैव साधनायाऽऽगमा आख्याताः, आगमेषु तेषामभ्युदयाऽर्थिताऽपि प्रतिबद्धा, यतस्तदीप्सापूर्त्यभिलाषिणां कृतोऽपि धर्मो न निःश्रेयसापकः पारमार्थिकश्च, सर्वेष्वप्यागमेषु सातत्येन मोक्षमार्गस्योपदेशं व्यतिरिच्य न किमप्यन्यदुपदिष्टं । न चाऽक्षीणराग-द्वेष-मोहत्वेन स्वयं पुत्र-पौत्रादिकप्रसक्तो ललनालालनाऽऽसक्तो गृह-पुत्र-दाराऽऽदिममत्ववानेवं परेभ्य उपदेष्टुमुद्यतः स्यात् । न च परोपदेशपाण्डित्यवत्तदुपदेशं शृणुयुराचरेयुर्वा सन्त इति । अवश्यं ज्ञायते यदुत क्षीणराग-द्वेप-मोहत्वादेवोपदिष्टा एवंविध आगमाः, गणभृदादिभिस्तदीयोपदेशमनुसृत्य स आगमार्थों यथावदाचीर्ण इति ।
वृत्तं च भगवतामर्हतां क्षीणराग-द्वेपमेव, उत्पत्तेः केवलस्याऽऽजन्म कोटिकोटिसुरसेवायास्तेनैव हेतुना भावादाख्यायतेऽपि तथैव । यतः क्षीणघातिकर्मणां भगवतामहंतामेकादशातिशया लोकाऽनुभावत आविर्भवन्ति, सुरा अपि क्षीण-घातिकर्मत्वादेव भगवतामर्हतामेकोनविंशतिमतिशयान् कुर्वन्ति । एवं च लोकानुभावजैकादश-सुरकृतकोनविंशतिसङ्ख्यकानां लोकातिगानामतिशयानां प्रादुर्भावः घातिकर्मक्षयादेव, राग-द्वेष-मोहाश्व मोहनीयाख्या घातिकर्मण एव भेदाः।
किञ्च-क्षयायोत्थिता अर्हन्तो भगवन्तः समस्त-घातिकर्म-क्षयेणाऽवाप्तवे वलाः तीर्थप्रणयने समस्त-घातिकर्म-क्षयप्रत्यलमाविष्कुर्वन्त्येव स्ववृत्तमाचारागाहये आद्य एवाङ्गे, स्वमुखेनैव प्राग्वृत्त
१ जगती-संसारः. जगत्यां भवाः ये ते जागताः संसारिप्राणिनः, तयोरित्यर्थः ।