SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (२५) जीवाऽऽदीनां तत्त्वानां द्वादशानां पर्षदां पुरतो युगपत् समग्र-श्रोतृजन-संशयच्छेदकारिण्या स्व-स्वभाषापरिणामिन्या देशनया सङ्गतेष्वेव भगवत्स्वर्हत्सु जगज्जनचेतश्चमत्कारकारको श्रीमदर्हतां भगवतामहेत्ताया अवबोधकश्च भवति, परं जगति सर्वेऽपि प्रावादुकाः स्वस्वतीर्थप्रणेतारं सर्वज्ञत्वेन. तद्वत्त्वाऽवधारणादेव च यथार्थवस्तुदेशकत्वेनाऽवधारयन्ति, न च तत् तथ्यं, यतो जीवानां हि संसारभ्रामक-कर्मबन्धननिबन्धनभूतौ राग-द्वेषौ स-मोहौ यावन्न स-मूलका कण्येते, तावन्न स्वच्छतामविकलामात्मनि धारयितुमलम्भूयते, अतः कार्यभूतमपि सकलसत्त्वोपकारमूलनिबन्धनमपि सर्वज्ञत्वाऽऽदिकमुपेक्ष्य क्षीणरागद्वेष-मोहत्वमुदीरितमहतां भगवतां शरणमभ्युपगन्तुकामेन भव्यजीवात्मना। ___ तत्त्वत एषामेवाऽऽस्मस्वरूपबाधकत्वान्निगकार्यता, तन्निराकरणादेव च श्रीमतामर्हतां भगवतां शरणदानपटुता स्वीकृताऽस्तीति । ... किञ्च-सुदेव-कुदेवानां विभागे यथाऽवस्थितवस्तुवादिताया निर्णय आवश्यकः, तमन्तरा जगदुद्धाराऽऽदिक्रियाया असम्भवात् , परं स निर्णयो यदि परवाक्यसन्ततः प्रामाण्येन क्रियते, तर्हि सत्य-सर्वज्ञतावत्वेन सिद्ध-सुदेवत्वस्यापि सुदेवत्वेन निर्णयो विधातुमशक्यः । यदि च तदीययैव वाक्यसन्तत्या तस्य सर्वज्ञता वेविद्यते, तर्हि तु कस्यचिदेव मात्रया अल्पया चुक-स्खलितेनाऽसर्वज्ञतायोतिका स्याद् वाक्यसन्ततिरिति न वाक्यसंहत्या सत्यसर्वज्ञताया निर्णयो विधातुं पार्यते, न च सर्वज्ञाऽसर्वज्ञतयोरस्ति किञ्चिचिह्न तथाविधं, येनाऽविनाभूतेन सार्वश्य-प्रत्ययो विधातुं सुकरः स्यात् । ___ न चैव सुदेव-कुदेवत्वयोविभागः कर्तुमशक्योऽसम्भाव्यो वा ? किन्तु सर्व-श्रेयसां मूलस्य यथाऽवस्थितवादित्वस्य यथा सार्वश्यं मूलं, तथैव सावश्यस्याप्यविनाभूतं मूलमस्त्येव वीतरागत्वं । तत्र च यद्यपि वीतरागत्वसिद्ध्यै न वीतरागतया प्रतिबद्धमस्ति किञ्चित् तथाविधं गमकं चिरं, तथापि वीतरागतायाः प्रतिपक्षभूतं रागस्य द्वेषस्य मोहस्य च गमकमस्त्येव तथाविधं चिह्न, तथा चाऽन्वयव्याप्त्या वीतरागत्वस्याऽसिद्धत्वेऽपि व्यतिरेकव्याप्त्या वीतरागत्वाऽभावसाधनं न दुष्कर, सिद्धे च तस्मिन् तद्वतः असर्वज्ञत्व-कुदेवत्वा-ऽयथावस्थितवादित्वाऽऽदयः स्वत एव सिद्धाः । न च वाच्यं गृह्य-न्यलिङ्गसिद्धिवादिनां जैनानं मते व्यतिरेकिणो हेतोरेव नास्ति सिद्धिरिति, यतो ये हि गृह्य-न्यलिङ्ग-सिद्धा उच्यन्ते ते हि यद्यन्तर्मुहूर्ताऽधिकाऽऽयुष्काः स्युस्तर्हि तेऽवश्यं स्त्री-शस्त्रांडक्षमालादिवियुता एव भवेयुः, स्व-लिङ्गग्रहणस्य तेषामप्यावश्यकत्वात् । ततः सदा स्त्री-शस्त्राऽऽदिधारका ये तेषां तथाकालिक्या व्यतिरेकव्याप्त्या न चिद्वतां किञ्चिद् बाधकमिति । न च वाच्यमेवं व्यतिरेकव्याप्त्या वीतरागत्वं तन्मूलं च सार्वश्यं सिध्येत् , न तु सुदेवत्वं, यतः सर्वज्ञा हि प्रतिउत्सर्पिणीरसङ्ख्या भवन्ति, सुदेवास्तु चतुर्विशतिरेवेति, सुदेवत्वं हि न केवलं व्यतिरेकव्याप्या सिद्धेन वीतरागत्वेन साध्यते, किन्तु तया कुदेवत्वाऽभावो निर्णीयते । एवं चाऽयोगव्यवच्छेदार्थोऽयमारम्भो, नाऽन्ययोगव्यवच्छेदार्थः । . . . . .
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy