________________
(२४)
योजनमात्रे क्षेत्रे भगवद्देशनामृतपानोद्यता देशनाक्षेत्रे स्थातुं शक्नुवन्ति, सर्वेऽपि नर-तिर्यग्-देवाऽऽदयो भगवन्मुखपद्मविनिर्गतां देशनागङ्गामवगाह्य स्व-स्वभाषातया परिणतिमापन्नां देशनावचनततिमवगाहन्ते । एत इवाऽपरेप्यतिशया अद्भुततमा भगवतां जिनेश्वराणामेव, अतः सत्यतममेतद् यदुत-"भगवन्तो जिनेश्वरा अचिन्त्यपुण्यसम्भारा" इति ।
यद्यपि श्रीमतामहेतां भगवतां जिननाम्नो बन्धकालाद् विशेषतश्च निकाचनकालादूर्ध्व जायत एवाऽनुत्तरपुण्यप्राग्भारोदयः, तस्मादेव चैकेन्द्रियादिष्वपि गता 'जात्या एव ते भवन्ति, निकाचनादनन्तरं प्रारबद्धतथाविधकर्मप्रभावाद् गता नरकेष्वपि नाऽन्यनारकवदनुभवन्त्यसातं, तत एव च 'उववाएण व सायमित्यादिकायां गाथायां 'कम्मुणो वा वित्ति पठ्यते, देवेष्वपि जातानां निकाचितजिननाम्नां न "माल्यम्लानि "रित्यादीनि पड् महाशोककारणानि भवन्ति, जाता अपि मनुष्यभवे उत्तमसंहनाऽऽदियुता एव भवन्ति, भवति च तेषामेव भगवतामचिन्त्यपुण्यप्राग्भारादेव देहसौगन्ध्याssदिकमतिशयचतुष्कममन्यजगतीजन-कल्पनाविषयाऽतीतं, परं तीर्थस्थापनाऽऽद्यवसरेषु धर्मदेशना-प्रभावार्थ चतुस्त्रिंशदतिशयसमूहयुतत्व-मिन्द्राऽऽदिविहिताऽविच्छिन्नभावार्हन्यन्निबन्धनमतिशयचतुष्कं च, तत्तु प्रक्षीणेषु घातिकर्मसु रागादिषु तत्प्रभावादेव च "केवलियणाणलंभो णण्णस्थ खए कसायाण "मितिवचनाच्चरिते जाते सार्वश्ये भवत्यत आहुः प्रकरणकारा भव्यजीवमुखेन 'क्षीणरागद्वेषमोहा' इति ।
यद्यपि परमाऽऽहतीयेषु कर्मप्रकृत्यादिशास्त्रेषु “ जीवानां सम्यक्त्वमूलकतत्वत्रयीविषयकाsप्रीतिकारक-प्रीतिघातकतयाऽष्टादशानां हिंसादीनां पापस्थानानां रत्या चाऽनन्ताऽनुवन्धिनः कषायाः सम्यक्त्वघातकाः, पापदेशस्याप्यपरिहाराद् देशविरतेः प्रतिबन्धका अप्रत्याख्यानाः, आरम्भ-परिग्रहविषय-कषायाऽऽद्यासक्त्या सर्वविरतेः प्रतिबन्धकाः प्रत्याख्यानाऽऽवरणाः, अकषाय-यथाख्यातचाारित्रप्रतिबन्धकतया सवलनाश्चेति वर्गचतुष्कवर्तिनः क्रोध-मान-माया-लोभाः कपाया" इत्येव कथ्यते, हास्याऽऽदिनवकं सनिमित्तमितरथा वाऽऽविर्भवन् नोकपायशब्देनाऽभिधे यते, परं न कापि कर्मप्रकृतीनां मूलेपूत्तरेषु वा भेदेपु राग-द्वेष-मोहा इति दोषत्रव्युत्कीर्त्यते, तथापि जीवस्य यत् स्वास्थ्यं तच्चलन राग-द्वेष-मोहरूपं,ततश्च द्वेषात् क्रोध-मानयोः रागान्माया-लोभयो!कपायेभ्यो हास्यादिपट्के च या प्रवृत्तिर्जायते, सा मोहनीयस्य भेदेषु गुणस्थानक्रमेण क्षय्येषु कर्मभेदेषु मोहत्वेन कपायत्वेन नोकपायत्वेन च कथ्यते ।
तत्त्वतस्त्वात्म-स्वास्थ्यवाधका राग-द्वेष-मोहा एव रिपवस्ततः सुष्ठुक्तं ' क्षीणराग-द्वेषमोहा' इति ।
यद्यप्यनुत्तरपुण्यसम्भारः सर्वज्ञताऽवगताऽभिलाप्या-नभिलाप्यपदार्थत्वेप्यभिलाप्याऽर्थदेशित्वेन १. श्रेष्ठा इत्यर्थः ।