________________
(२३)
योग-क्षेमकरण-तत्परतया नाथरूपं, तत्प्रणायकाश्च "अरिहा ताव णियमा तित्थयरें"त्ति वचनात्तस्य शासनस्य नियतं प्रवर्तका एवेति ।
सर्वमेतद्विचिन्त्यैव ब्रवीमि 'परमतिलोगणाह 'त्ति, त्रिलोक्यां शासनस्य प्रवर्तनात् परमत्रिलोकनाथा इति । न च श्रीमदर्हतां भगवतां परमत्रिलोकनाथताऽसम्भविनी, यतस्त एव त्रिलोक्यां वर्तमानेषु सत्वेषु समग्रेषु परमैश्वर्यभाजो भवन्ति, तत्र च हेतुरेक एव, यतस्त एव अचिन्त्यपुण्यसम्भारा इति ।
विदितमेतद् विदुषां यदुत-सर्वास्वपि कर्मप्रकृतिषु अर्हन्नामैव तादृशं यद्बन्धोदयाऽऽदिषु सर्वेषु प्रशस्तं, बध्यते च तदन्तःकोटीकोटीसागरोपमस्थितिकं, तन्नामसम्बन्धप्रभावेणैव भावितीर्थकरजीवा अनेकभवेषु निःश्रेयसपथ-प्राप्तिभावनयाऽवश्यं भावितभावा एव भवन्ति । तीर्थकरभवात्तृतीयस्मिंस्तु भवे अवश्यं वरबोधिलाभेनैव ते वुध्यन्ते, तत्प्रभावेण च ते परार्थोद्यमिन एव भवेयुः । वरबोधेरनन्तरं श्रीअर्हदादीनां पदानां यदाराधनं कुर्वन्ति, तदपि गौणे स्वनिस्तारणभावे सत्यपि परनिस्तारणहेतुत्वेनैव - तादृशे धर्माराधने तेषां भाग्यवतामेषैव भावना यदुत
"विद्यमाने एतादृशे भवनिस्तारणपरे श्रीजैनेन्द्रशासने किमिति प्राणिनो भ्राम्यन्ति जन्मजरातङ्कान्तकाकीर्णे भवे ? तदेतान् समस्तान् अनेनैव शासनप्रवहणेन निस्तारयामि दुःखजलधेर्भवादिति ।" - एतादृश्या एव भावनायास्तेषामर्हदादिपदानामाराधनात् श्रीजिननाम्नो बन्धो-दयाऽऽदिषु सर्वेषु शुभरूपायाः कर्मप्रकृतेर्बन्धो निकाचितो जायते, मृताश्च तत एकभवान्तरितास्ते अवश्यं तीर्थकरा भवन्ति, अत उच्यते-'अचिन्त्यपुण्यसम्भारा' इति । ..
न हि प्राप्य वरं बोधि परार्थोद्यतास्ते भावि-तीर्थकरजीवा अपि न हि श्रीजिनपद-प्रभावजं पुण्यप्राग्भारं जानीतुं शक्ताश्चेतयन्ति चिन्ताविषयमपि वाऽऽनयन्तीति युक्तमुच्यते 'अचिन्त्यपुण्यसम्भारा' इति ।
एतादृशात् पुण्यसम्भारादेव गर्भावतारसमय एव गजाऽऽदि-चतुर्दश-भ्राजिष्णु-महास्वप्नदर्शनं मातुः, जातमात्रे सुराचलमूर्ध्नि सुराऽसुरेन्द्र-श्रेणिनिर्मितो जन्माभिषेकः, यावनिर्वाणकल्याणकमहोत्सवकृतिरपीन्द्रादीनां, तदेवमपरिमितत्वादचिन्त्यत्वाच्च तदीयपुण्यप्राग्भारस्य कियत् कथ्यते ? यावत् सर्वेषां सर्वविदां सर्ववित्त्वे समानेऽप्यचित्यपुण्यप्राग्भारोऽचिन्त्यो यत् – ' तेषां या भविष्यद्वाणी सा यानेव संशयान् समूलं यथावदुच्छेत्तुमलम्भविष्णुस्त एव संशयाः श्रोतृवर्गस्योत्पद्यन्ते, न न्यूना नातिरिक्ताः', न च विहायाऽचित्यपुण्यप्रारभारान्वितान् जिनेश्वरान्-यस्य कस्याऽपि सर्वविदोऽप्यस्त्येषोऽतिशयः, किञ्च-भगवतां जिनेश्वराणामेवान्योऽपि पूज्यप्राग्भारोऽचिन्यो यद्-अपरिमिता -अपि श्रोतारो