________________
(२२) स किमिहाऽऽह इति शङ्कासमाधानाय शिक्षाप्रवण-शैक्षकवचनान्येवाऽऽहु:-'जावजीवं मे' इत्यादि । . नाऽविदितमेतद् विदुषां यदुत-"जन्म-जरा-मरणातमसारमात जगदशरणं समीक्ष्य श्रोताऽयमुद्विग्नः स्वतो भवाद्," तत एव च भगवद्भिरपि भवस्यैतस्याऽनादिता तद्वदनादिकर्मसंयोग-निवर्तितता चाऽऽख्याता, जीवस्याऽनादितायाः साधनमपि तादृशस्य दुःखमयस्याऽशरणस्य भवस्याऽनादितायाः साधारणार्थमेव, तथा चाऽभिसमीक्ष्य भवस्य तथाविधे दुःखमयत्वेऽप्यशरणतामवश्यं शरणमङ्गीचिकीर्षुः स्यात् , अत एव च श्रीमदर्हद्भिर्भगवद्भिरपि त्रयाणां कर्त्तव्यानामादौ शरणगमवस्त्वभिधानपदमानीतं, अत एव श्रोताऽइह -' यावज्जीवं मम शरणं भगवन्त' इति ।
तथा च " ज्ञातं मया निःसारं जगत् , अवबुद्धो मया जन्म-जरा-मरणाऽऽतिपूरितो भवःभीतोऽहं जन्मादि-महाव्यथापूर्णाद् संसारात्, न वीक्षितं पूर्णेऽपि जगति मम रक्षणे प्रवीणं (प्रवर्ण) किञ्चित् , अधुनैव च लब्धा भवत्राण-विधानवेधस एते, ततो निश्चलोऽहं जातोऽवधान एतस्मिन्" यदुक्तं"अनादिकालादलब्धपूर्वा एते शरणसमर्था अधिगता भगवन्त इति, न कदाप्येतान् मोक्ष्यामि, न च अन्यथाधीभूत्वा परान् शरणं श्रयिष्य " इति निश्चित्य चेतसेदमाह यदुत-" भगवन्तो यावज्जीवं मम शरणमिति ।"
तथा चैतत् कालाऽवधारणं सातत्या, न भवान्तरे शरणस्य निषेधार्थ, तद्भावे तत्र तस्याऽपीष्टत्वादेव, भवान्तरभावस्याऽनिच्छनीयत्वाच्च न तत्र भाविशरणविचारः । यच्च ‘मे सेवा भवे भवे तुम्ह चलणाण' मितिपाठेन भवान्तरसेवना-प्राप्तिप्रार्थनं क्रियते, तन्न मुख्यवृत्त्या करणाहमिति तु तत्रस्येनैव 'वारिज्जइ जइवि नियाणवंधण' मित्यनेन स्पष्ट्यत एवेति “यावज्जीव "मिति योग्यमेवेति ।
आ-भवं न मुच्चाम्येतान् भगवतः, आजीवनमेतेषामेव भक्तो तत्परो भविष्यामि, न चान्यान् कानपि तथाविधान् सम्भावयामि यानाश्रितुमुन्मनाः कदाचिदपि भविष्यामीति अनन्यशरणतयैवैतान् मगवतो यावज्जीवमनन्यमना श्रयिष्यामीति ।. . .
'मे' इत्यस्मत्पदमसमानशरणाश्रयणद्योतनाथ । तथा च "अहमेवाऽसाधारणतया भगवतः श्रयामि, मद्विधः शरणं प्रतिपन्नो न कश्चिद् भवभ्रमणपीडापीडितः प्राणी" ति ज्ञापयत्यनेन ।
किश्च-भ्रान्तः पूर्व समस्तेऽपि जगति, परं न क्वोप्यात्मसाधनवार्ताऽपि याथातथ्येनोपलब्धा, सर्वेषामपरतीर्थीयानामर्थ-काम-स्वर्ग-भूतिकामनापराणां शरीर-तत्पोपणसाधन-स्थान-सन्तान-समृद्धि-समुदाय-प्रवर्तनादिष्वेव प्रयत्नशीलवदर्शनात् । सति चैवं ज्ञानाऽऽदीनामात्मस्वरूपभूतानामनाविर्भूतानामाविर्भवनयोगेन लब्धानामपि तेषां निष्प्रत्यूह रक्षणपरायणतया या नाथता लभ्या, तस्या स्वप्नोऽपि न तत्र ज्ञायते, तर्हि अत्र श्रीमदर्हतां भगवतां शासनं तु सदेवाऽसुरमनुष्यस्य लोकस्य त्रिलोकगतस्य