________________
(३८) यद्यपि सिद्धा भगवन्तः ज्ञान-दर्शन-सुख-वीर्याऽनन्त्यचतुष्टयीवत्वात् न तेषां ते पुद्गलाः सुखहेतवो भवन्ति, परं समग्रे जगति सर्वोत्तमानुभावव-पुद्गलस्थानं तदेवोलोकाऽप्रभागलक्षणं, तेन कर्म कलङ्कमुक्तानां प्रणष्टव्याबाधानां भगवतां तत्राऽवस्थानं योग्यमेवेति ।
जगति च समृद्धतयाऽनाक्रमणीयतया बुद्धिप्रधानपुरुषाऽऽवासतया च पुरमेव विशिष्यते प्रामादिभ्यः स्थानेभ्यः, तद्वत् ज्ञानादिचतुष्टयाऽनन्त्यसमृद्धं कर्मरिपुभिरनाक्रमणीय सनातनज्ञान-दर्शनाऽनन्त्योपयोगप्रवृत्तं च समग्रेऽपि संसारे सिद्धिरेवेति सा पुरेणोपमीयते ।
किश्च-दुस्तरसमुद्रतरणपटिष्टैरवाप्य समुद्राऽपरतटं पुरमेवाप्नुमभिप्रेयते, तद्वदत्रापि संयम-पोतेन दुःसार-संसारसमुद्रं प्रतीर्य साधवः सिद्धिमवाप्तुमिच्छतीति सिद्धरुपमानं पुरेणेति ।
किञ्च-यथा पुरमुपागता अध्वनीनाः सर्वदस्युप्रभृतिभयविप्रमुक्ता भवन्ति, तथाऽत्रापि सिद्धिमुपेतानामेव जन्म-ज़रा-व्याध्या-मयाऽन्तकाऽऽदिभयानि सर्वदा नष्टानि इति सिद्धेरुपमितिः पुरेणेति ।
___ पुरेषु द्विविधा लोकाः-पोरा जानपदाश्च, तत्र ये पुरमेवाधितिष्ठन्ति स्वाऽऽश्रयाः ते पौराः, जानपदाश्च, तत्र ये पुरमेवाधितिष्ठन्ति स्वाऽऽश्रयाः ते पौराः पुरनिवासिन इति कथ्यन्ते, ये च बहिर्भागात् प्रयोजनं किञ्चिदुद्दिश्य पुरमधिश्रितास्ते जानपदा इति कथ्यन्ते । तत्र ये सिद्धा भगवन्तस्ते सिद्धिपुरनिवासिनः, सदैव तत्राऽवस्थानात्तेषां, ये तु पृथिव्यादयः स्थावरास्तत्र लोकाग्रभागे सिद्वाश्रयाऽविभक्तेष्वेवाऽऽकाशप्रदेशेषु सन्ति, ते तत्र न नियमावस्थानाः, चतुर्दशरज्जुप्रमाणलोके परिभ्रमणशीलत्वात्ततस्तत्र लोकाग्रभागे सिद्धिस्थाने ते जानपदतुल्यतयाऽविवसन्ति, न पौरवन्निवासितया।
ततो योग्यमेवोक्तं भगवतः सिद्धानधिकृत्य सिद्धिपुरनिवासिन इति, समृद्धतमं निरावा, पूर्णसाधनोपेतं परचक्राऽनाक्रम्यं नृपतिस्थानं जगति मतं पुरमिति अनन्तचतुष्टय-ऋद्धिकलिताया जन्म-जरा-व्याध्यन्तकाद्याऽऽवाधारहितायाः सम्पूर्णसौख्यरूपायाः कर्मतृपसैन्याऽनाक्रमणीयायाः सर्वाऽधिपतीनां सिद्धाना-मनन्यस्थानभूतायाः सिद्धेः पुरेणोपमानम् ।
किञ्च-अटव्याः समुद्रस्य पारं जिगमिषुभिरवश्यं पुरप्राप्तिरभिसन्धीयते, अत्रापि च भवाऽटव्याः संसार-समुद्रस्य पारगामिन एवाऽऽगच्छन्तीति पुरेणोपमानं, तन्निवासिनश्च सिद्धा इति ।
किञ्च-आजन्माऽरण्यवासी म्लेच्छः अश्वाहरणप्राप्ताऽरण्यवासेन नृपेण तत्कृतस्योपकारस्याऽविस्मरणीयतां चिन्त्यमानेन नीतः स्वराजधानीपुरं, स्थापितश्च कियन्तमपि कालं महोपकारितामनुस्मरता बहुविधोपंचारपुरस्सरं तस्मिन्नेव पुरे स्वसमीप एव, कालान्तरेण स्मृत्वा निजं परिवाराऽऽदिकमागतोऽनुज्ञाप्याऽरण्यं स्वजनानामभ्यर्ण, स्वजनाश्च चिरेणागतं तं कालमेतावन्तं क्व स्थित इति पृच्छन्त्येव, स चानुभूतं सोपचारं पुरमेव निवेदयति, जातकुतूहलाच पौनःपुन्येन तस्यैव पृच्छन्त्येव स्वरूपं, स च नृपकृपापात्रीभूतो म्लेच्छो जाननपि सकलं यथार्थतया पुरस्वरूपम् , वाञ्छन्नपि स्वजनानां परमप्रीतिस्थानत्वा