________________
अथ प्रकरणकारकृतस्य सनमस्कारस्य जिनाऽनुवादसूत्रस्य व्याख्या
जिनोक्तानुवादपरत्वात् प्रस्तुतस्य सूत्रांशस्य न मङ्गलाऽऽद्यनुबन्धचतुष्टयस्योपन्यासः, जिनोक्तौ तस्यासम्भवात् , परमाप्तत्वादेव जिनानां तद्वचनेष्वादरेण प्रेक्षावतां प्रवृत्तेः सिद्धत्वात्, स्वयं देवाधिदेवत्वात् नाऽन्यनमस्कारेण निर्विघ्नपारगमनादि, किन्तु क्षयादेवाऽऽन्तराणां, उदयादेव च जिननाम्नः स्वतःसिद्धविनाऽत्यन्ताऽभावा एते, न चैते इष्टसिद्धय-निष्टनिवारणमन्यदा ब्रुवन्ति इति नार्थः प्रयोजनाभिधेययोर्दर्शनेनेति । 'नमो वीतरागेभ्य' इत्यतो 'अरुहंताणं भगवंताण' मित्युक्तं, तदनुवादकेन प्रकरणकारेणाऽनूद्यानां जिनानां परमगुरुत्वेन नमनाऽऽदिविनयस्यावश्यकर्त्तव्यत्वादुक्तं, नानुबन्धाङ्गत्वेनेति ।
अधुना व्याख्याकारा द्वितीये पदकरणनाम्नि व्याख्याभेदे स्त्यादीनि पदानि भेदयित्वा व्याख्यान्ति, प्राच्यास्तु पदानां नामिका-ऽऽख्यातिको-पसर्गिक-नेपातिकमित्रैर्भेदयित्वा पदव्याख्या कुर्वाणा अन्यतमं भेदं निर्धारयामासुः, अत एव नियुक्तो-' णमो इति णेवाइयं' इत्युक्तं, आख्यातिके 'नम्' धातुजाते पदे 'प्रहत्व' मात्रं स्यात् , नैपातिकनमःपदाच निपातानामनेकत्वाद् 'द्रव्यभावसङ्कोचः पदार्थ' इति पदार्थनाम्नि व्याख्याभेदे स्पष्टितं । तत एव च पूजार्थे नमसः क्यन् क्रियते, पठ्यते च - 'देवावि तं नमसंतीति ।
'अहंद्भ्यो नम' इति वाच्ये 'देवतानां गुरूणां च नाम नोपपदं विने' त्युक्तेभंगवद्भ्य इत्युपपदं । यथा शक्रस्तवे ' णमोत्थुणं अरिहंताणं भगवंताण' मिति ।
तदा च 'भगवद्भ्योऽर्हद्भ्यो नम' इत्यभिधेयं शक्रस्तवे, समग्रैश्वर्यादीनां भगवच्छब्दवाच्यानां षण्णामर्थानां सम्पदाक्रमेण वाच्यत्वात् आदिकरत्वाऽऽदीनि विशेषणानि पश्चादुक्तानि । अत्र तु स्वतन्त्रतया भावाऽऽर्हन्त्यनिबन्धनानामतिशयानां चतुर्णा वक्तव्यत्वात् प्रागेव' विशेषणानि ।
___ यद्यपि भगवच्छब्देन भावार्हन्त्यमागच्छेत्, परं च्यवनादा मोक्षगमनपि भावाऽऽहन्त्याऽभिगमपक्षे कैवल्यदशावर्तिभावाऽहत्परिग्रहायाऽऽवश्यकानि वीतरागादीनि चत्वारि विशेषगानीति ।
यद्यपि उपशान्तमोहावस्थायामस्ति वीतगगता, परं न साऽत्र, यतः प्रतिपातपर्यवसाना सा; न च जिनानां छामस्थ्येऽपि तथाप्रतिपातितेति क्षपकश्रेणिजन्यैव वीतरागावस्था स्वरूपतो ग्राह्या ।
किञ्च वीतरागतेयं सर्वज्ञताप्रापगप्रत्यला ग्राह्या, पुरतः 'सर्वज्ञेभ्य' इत्युक्तेः, ' सार्वज्यं च क्षीणमोहानामेव वीतरागाणां भवती' ति क्षीगमोहवीतरागतैव वीतरागपदेन ग्राह्येति, सूर्योदये उदितेऽरुणोदयकथनं निष्प्रयोजनं यथा, ततः पूर्वं तस्यावश्यम्भावात् । इत्थमेव माया-लोभरूपरागस्य क्षयात् प्रागेव क्रोध-मानरूपस्य द्वेषस्य हास्याऽऽदिषट् फरूपस्य मोहस्य च क्षयोऽवश्यं भवतीति वीतद्वेष-मोहवचनेन न कोऽप्यर्थः कोविदानां, तथापि स्वरूपदर्शनार्थमितरतीर्थीयदेवतानां च व्यवच्छेदार्थ यदि च वीतद्वेष-वीतमोहोक्तेरावश्यकता तर्युपलक्षणतया वीतद्वेष-बीतमोहता ग्राह्या, उप