________________
(१४)
एवं श्रीमदर्हन्तो भगवन्त एव सर्वज्ञतयाऽऽत्मादीनां साक्षात्कारं कृत्वा केवलेन तज्ज्ञातमेव जीवादिकं मोक्षाऽवसानं तत्वसमूहं यथाज्ञातमा चरव्युर्भगवद्गणधरादीन् प्रति, तत एवाssवश्यके नन्द्यां च केवलाऽधिकारेऽपि
“ केवलणाणेणऽत्थे णाउं, जे तत्थ पण्णवणजोगे |
भाई तित्थ "त्ति स्पष्टयोच्यते ।
तथा च ये केवलज्ञानवन्तः सन्तः केवलेनैव ज्ञातान् जीवाऽऽदीन् पदार्थान् वीत - रागतया यथाज्ञाताने वाऽऽचख्युस्त एव यथास्थितवस्तुवादिनः एवम्भूताच श्रीमदर्हन्तो भगवन्त इति तन्नमस्क्रिया ।
अन्यतीर्थीया यथा श्रीमतामर्हतां भगवतां देवत्वेन त्रिलोकीमान्यानां तौर्थेशत्वंमनुसृत्य स्वं प्रतिबिम्बं पूज्यतापदवीमानयन्तोऽपि नासानियतदृष्टयाऽऽस्य प्रसन्नता-चक्षुर्निर्विकारता-पर्यङ्कशयितादिकं देवलक्षणं न तस्मिन्नादर्तुं शक्ता जाता:, तथा भगवता महतामेव साक्षात्केवलेनालोक्य कृतां तत्त्वदेशनामपि नानुचक्रुः ।
प्राक् तावद् भगवद्भिरर्हद्भिर्जीवाऽजीवरूपं तत्त्वद्वयमेव निर्दिष्टं तद्वयस्य जगति सदा परस्पर- विविक्तस्वरूपतया भावात्, तदतिरेकेण तृतीयस्य कस्यापि पदार्थस्य अभावात् । विद्यमानयोरेव याथातथ्येन प्ररूपणेनैव यथास्थितवस्तुवादिता, कल्पितानां युक्त्या प्रसाध्यापि स्थापना तुरङ्गशृङ्गोत्पादसमानैव ।
उपदिष्टयोश्च जीवा—ऽजीवतत्त्वयोः केचित्तथाविधा जीवा एवावबुध्येयुः सभेद-प्रभेदौ जीवा - जीवौ, जीवानां शुद्धस्वरूपं, तस्याविर्भाव - तिरोभाव- तज्जनकहेतुसमूहं च । ततोऽदग्धदहनन्यायेन प्रभूतानां तथाविध-बोधवर्जितानां जीवानामुपकारायोपादेयतया मोक्षं, तत्साधनतया संवर- निर्जरे, तद्बाधकतया चाऽऽश्रव - वन्धौ च निरुपणीयावेव ।
तथा ( एवं ) परमार्थरूपां सप्ततत्त्वीमुपदिशन्त एव श्रोतॄणां भवनिस्तार- निःश्रेयसप्राप्तिप्रगुणतामाविष्कृत्य हितस्योपदेशका भवन्ति ।
संवess श्रवादयो न निःसाधनानां जीवानां भवन्ति, तत्साधनभूते च पुण्य-पापे एव । नह्यन्तरा पुण्यस्य पापस्य वोदयं संवराss - श्रवादीनां साधनानि योगगुत्यादयोऽवाप्यन्ते, परं ते निःश्रेयसादीनां न साक्षात् साधके वाधके वेति तयोर्निरूपणं वैकल्पिकं ।
केचित्तु ते (पुण्य-पापे) समाविश्य पदार्थ नवकं श्रीमदर्हद्भिर्भगवद्भिरुपदिष्टमित्यपि वदन्ति । न च तदप्यचारु, इति ।