________________
(१५) एवं च सप्ततत्त्व्या नवपदार्थ्या निरूपका एव हितकामिनां श्रोतृणां यथास्थितवस्तु• वादिनस्तत्त्वोपदेशकाच कथ्यन्ते । । ।
यद्यपि समेऽपि तीर्थिकाः स्व-स्वप्ररूपणया जगद्वतियावन्मात्रान् पदार्थान् विषयीकृत्यैव स्व-स्वशास्त्राणि रचितवन्तः, परं विहाय श्रीमदर्हतां भगवतां शासनं न काऽपि ज्ञेय-हेयो-पादेयविभागोपयोगितयाऽस्ति पदार्थानां निरूपणं, न च यथाऽवस्थितं पदार्थानां स्वरूपं तथा-निरूपणमपि । ___ततः श्रीमदर्हतां भगवतां द्वादशाऽङ्गरूपं यथास्थित-वस्तुनिरूपकमुपलभ्याऽपि तैः परतीथिकैलोकानावर्जयितुं केवलमात्मादयः पदार्थाः कतिचिदनुकृत्य निरूपिताः, नत्वाश्रव-संवरादयोऽनुकरणेनापि तैर्निरूपिताः । न चैतद्वैषम्यं निर्हेतुकं, यतो यदात्माऽऽदीनां निरूपणं तेऽनुकरणेनापि न कुर्युः, कथं लोकास्तेषामाराधनाय तत्पराः स्युः ?, यदि चाऽऽश्रव-संवराऽऽदीननुकृत्य निरूपयेयुस्तारम्भ-परिग्रहाऽऽदीनां कर्तव्यो भवेत्यागः, स च तेषां भवाऽभिनन्दिनां दुष्करतम इति नाऽनुकरणं कर्तु शक्तास्ते पूर्णतयेति । 'श्रीमदहन्तो भगवन्त एव यथास्थितवस्तुवादिन' इति सहजसिद्धमेवेति ।
___ मोहादीनपायान् सर्वथा दूरीकृत्य सकल-लोकाऽलोक-भावप्रकाशकं शुद्धाऽऽत्मस्वरूपं केवलमवाप्य पूर्वभवीय-जगदुद्धारकचिन्ता-वरबोधिलाभप्रभावजाऽहंदादिपदाराधन-निकाचितजिननामोदयलब्ध-शकश्रेणिसपर्याका जीवाऽऽदियथार्थवस्तुवादिनो भवन्तोऽपि 'देशनाफलं श्रोतृणां बोधानुगत' मिति न्यायमाश्रित्य परार्थसम्पत्सिद्धिप्रद्योतनाय चाह-'त्रैलोक्यगुरुभ्य' इति त्रैलोक्यं चाधस्तिर्यगु-लोकरूपं, गुरुत्वाऽधिकाराच्च तत्स्थानां वानमन्तर-व्यन्तर-भवनपति-देव-मनुष्य-तिर्यग्ज्योतिष्क-सौधर्मकल्पाऽऽदिस्थितदेवानां ग्रहणं, न च 'तात्स्थ्यात्तव्यपदेश' इति न्यायोऽत्राऽसङ्गत इति ।
गुरुत्वं च कष-च्छेद-तापशुद्धस्य धर्मस्य शासनात् , तीर्थस्थापनेन, मोक्षमार्गस्य प्रवर्तनात् , त्राणाच्च यत् यथार्थ शास्त्रं तस्योपदेशनात् 'स्वयं परिहार' इत्युपदेशकरीतेश्च, स्वयं तथा तत्र प्रवर्तनाच्चेति ।
त्रैलोक्यगुरुत्वं च जिननामोदयात्-तथाविधाऽतिशयाऽवाप्तैः देव-नर-शबर-तिरश्च स्वयमुक्ताया अर्धमागधीवाण्या अपि स्व-स्वभाषात्वेन परिणामनात् । न चैनमतिशयमन्तरा सर्वदेशीभाषामयाऽर्धमागधभाषामन्तरा चाऽऽबाल-गोपालाङ्गनानां सदेवनराणां बोधो, न च तदभावे त्रैलोक्यगुरुत्वमिति श्रीमदर्हतां भगवतामेवैतत्सम्भवाद्योग्यमुक्तं विशेषणं त्रैलोक्यगुरुभ्य' इति ।
'अईय' इति कर्मप्रकृतिसमुदायगत-जिननामकर्मोदयवद्भ्यः । .
यथैक एव भानुः तिमिर-ततेनिराकरणात् यथार्थतया तिमिराऽरिः, तथैव दिनस्य विधानाद् दिनकरः, कुमुदानां विकासनाच्च कुमुदबान्धव इति यथार्थतया पृथक्पृथगभिधां लभते, एवमत्रापि