________________
(१२) लक्षकता च वीतरागपदस्य रागक्षयात् प्रागवश्यं तयोः क्षयस्य भावात् , मोहादित्रिकस्य क्षय एव साक्ष्योत्पत्तेरिति ।
___ यद्यपि सर्वज्ञविशेषणेन विशेषितेषु भगवदर्हत्सु नाऽर्थो वीतरागपदेन, सार्वश्यात् प्रागवाश्यं वीतरागताया भावात् , परं मुधा सर्वज्ञतावादिनां निरासाय सर्वज्ञताया अवश्यंपूर्वभाविताया 'केवलीयणाणलंभो णऽण्णाथ खए कसायाण' (श्री आव० नि० गा.) मितिवचनादर्शनायव वीतरागेति पदमुक्तमावश्यकं च तदिति सहचरत्वनियमात् सर्वदर्शिभ्य इत्यपि ।
साकारोपयुक्तस्य लब्धिप्राप्तेरादौ सर्वज्ञत्वं, 'विशेषगुणो हि ज्ञानमात्मन' इति सर्वज्ञत्वोपन्यासः, आत्मनो ज्ञानमयत्वात् केवलज्ञानस्यैवात्मस्वरूपत्वाच्च क्षीण-ज्ञानावरणीयस्य स्यादेव केवलवत्त्वं सार्वश्यं चेति ।
सार्वश्याभावे ह्यहंप्रत्यय-ग्राह्यस्य शब्दादिरहितस्याऽऽत्मनः सुख-दुःख-वेदनानुभवस्य साताsसातकर्मण एवमादीनामनेकानामलौकिकप्रत्यक्षगम्यानामध्यक्षज्ञानं न स्यात् । अनुमानगम्यत्वमप्येषां प्रत्यक्षदर्शिनिर्दिष्टसम्बन्धानुसार्येवेति ।
सर्वमपरिशेपं द्रव्य-क्षेत्र-काल-भावविशिष्टं द्रव्य-पर्यायात्मकं सामान्यविशेषरूपं वस्तु जानन्तीति सर्वज्ञाः । एतानपेक्ष्यैव 'मानाधीना मेयसिद्धि' रिति नियमः, तदज्ञातस्यासत्वात् अनाद्यनन्त-पदार्थगोचरत्वाच्चैतज्ज्ञानस्यानाद्यनन्ततया ज्ञानं, समन्ततो ज्ञातस्यापि वृत्तस्य नाद्यन्त्यभागव्यपदेशस्तथारूपत्वादेव वृत्तस्येति ।
किञ्च-द्रव्याणामनाद्यनन्तत्वाभावेऽनुपादानस्योत्पत्तिः निरन्वयो विनाशश्च प्रसज्यते, द्रव्याण्यपेक्ष्यैव च "नासतो जायतेऽभावः, नाभावो जायते सत' इति विद्वत्पर्पत्सु गीयते इति ।
एताभ्यां च द्वाभ्यां विशेषणाभ्यां श्रीमदर्हतां भगवतामातत्वसिद्धिर्दर्शिता, यत आप्तिमन्त आप्ताः, आप्तिश्चात्यन्तिकी हानिर्दोपाणां, दोषाश्च राग-द्वेष-मोहा अज्ञानं च, क्षीणमोही भूत्वा यथार्थ सार्वश्यमाप्तानां नैकोऽप्येषां मध्याद् दोषो भवति, सिद्धे चाप्तत्वे तद्वचनानां निस्संशयं प्रामाणिकता गीयते ।
न च साश्येन वक्तृता विरुध्यते, यथार्ह श्रोतृणां प्रतिबोधायाऽरक्तद्विष्टतया जीवादीनां तत्त्वानां ज्ञेय-हेयो-पादेयधर्मवतामुपदेशे वाधालशस्याप्यनवकाशात् , अन्यथा गमनाऽऽगमनादीनामपि विरुद्धताप्रसङ्गात्, अलौकिक-सर्वप्रत्यक्षगम्यानां जीव-पुण्य-पाप-स्वर्ग-नरक-मोक्षाऽऽदीनां ये प्रतिपादका आगमास्तेषां सर्वेषां कल्पितत्वप्रसङ्गात् ।
एवं क्षीणकषायतायाः सर्वज्ञतायाश्चाऽऽख्यानेन श्रीमदर्हतां भगवतां सम्पूर्णा स्वाऽऽर्थसम्पत्तिः प्रतिपादिता।